________________
[१. २१
२] कवि-उदयराजविरचितं राजविनोदमहाकाव्यम्। ब्राह्मि ! ब्रह्मसभां सुभाषितरसत्यागेन रूक्षाननां
कृत्वा क्रीडसि भूतले किमिति सा शक्रेण पृष्टाऽब्रवीत् । सुत्रामन् महमूदसाहिनृपतेविद्याविदां संसदि
स्वच्छन्दप्रसरत्कवित्वलहरीं त्यक्तुं कथं शक्यते ॥११॥ इन्द्रः किं कमलापतिः किमथवा किं वा रतेर्वल्लभ:
शृङ्गारः किमु मूर्तिमानिति बुधैस्सोल्लासमालोकितः । चञ्चच्चामरवीजित: सुमहच्छत्रेण विभ्राजितः ___सोऽयं श्रीमहमूदसाहिनृपतिः सिंहासने राजते ॥१२॥ औदार्य परमस्य शौर्यमतुलं गाम्भीर्यमुख्यान् गुणान्
प्रेक्ष्य श्रीमहमूदसाहनृपतेराश्चर्यमासेदुषाम् । केषां वा विदुषां दधीचिररुचि धत्ते न चित्ते चिरं
कर्णः कर्णकटुत्वमेति [पृ०२B] भवति प्रायो बलिविस्मृतः ॥१३॥ पूर्णोध्न्यः सुरधेनवः फलभरैर्भुग्नाश्च कल्पद्रुमा
स्ते चिन्तामणयो दृषद्गुरुतया योग्यास्तुलारोहणे । वीरश्रीमहमूदसाहनृपतेः सत्पात्रकोटिम्भरे___ जर्जातं दानगुणेन सम्प्रति यतो याञ्चाविमुक्तं जगत् ॥१४॥ चिन्तामणेर्लोचनमाश्रिता श्री: करं च कल्पद्रुमदानशक्तिः । वाणी विलासेन च दोग्धि कामान् जिष्णोर्जगत्यां महमूदसाहेः ॥१५॥ उच्चैद्विषद्भूधरलक्षपक्षच्छेदैककर्तुः शतकोटिभर्तुः । संलक्ष्यते श्रीमहमूदसाहेराखण्डलत्वं क्षितिमण्डलेऽपि ॥१६॥ यशोभरैः श्रीमहमूदसाहेर्वसुन्धरायां कुमुदावदातैः । उदस्य दोषाकरमब्जजन्मा विधित्सतां चन्द्रमसां सहस्रम् ॥१७॥ प्राच्या प्रतीच्यामपि दिश्यवाच्यामुच्चैरुदी [पृ० ३A] च्यामुदयं दधानः । प्रतापभानुर्महमूदसाहेः करोति निर्वैरितमः समस्तम् ।।१८।। श्रीचन्द्रहासो महमूदसाहेः सृजत्यहो वैरिशिरांसि राहून् । तेषां यशश्चन्द्रमसः प्रतापभानोश्च सर्वग्रहणे रणेषु ।।१९।। सोत्तालपातं रिपुकन्धरासु तूर्यस्वनैस्ताण्डविता रणेषु । कृपाणयष्टिर्महमूदसाहेर्यशःप्रसूनाञ्जलिमातनोति ॥२०॥ प्रवर्तितं दक्षिणवामभागयोर्जवेन पश्यद्भिरलक्षितक्रमम् । धनुर्हि शार्ङ्ग महमूदभूपतेर्व्यनक्ति युद्धेषु चतुर्भुजश्रियम् ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org