SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४८८ पण्डित-रघुनाथ-कवि-विरचित बुड-खुप्पो मस्जेः ॥ ३९० ॥ [मस्जे बुड खुप्प इत्येतावादेशौ स्याताम् । ] मजति बुडइ खुप्पइ । तृप तृप्तौ। तृपस्थिम्पः ॥ ३९१ ॥ तृपेः थिम्प इत्यादेशः स्यात् । तृपति थिम्पइ । घुण भ्रमणे। घूर्णति घोलइ । पृङ्ग व्यायामे । प्रियते परइ । मृङ् प्राणत्यागे । म्रियते मरइ । सृज विसर्गे । सृजति सअइ । कृती छेदने । कृन्तति कतइ । खिद परिघाते । खिंदति विसूरइ । पिश अवयवे । पिशति पिसइ । इति तुदादयः। रुधिर आवरणे। रुधेन्ध-म्मौ ॥ ३९२ ॥ रुधेः धस्य न्ध म्म इत्येतावादेशौ स्याताम् । रुणद्धि रुन्धइ रुम्मइ। भिदिर विदारणे। भिदि-च्छिदोरन्तस्य न्दः ॥ ३९३ ॥ अनयोः दस्य न्दः स्यात् । भिनत्ति भिंदइ । छिदिर द्वैधीकरणे। छिनत्ति छिदइ। खिद दैन्ये । खिनत्ति विसूरइ । ओविजी भय-चलनयोः। विनक्ति विअइ । उद्विनक्ति उविवइ । इति रुधादयः। . तनु विस्तारे । तनोति तण्णइ । षणु दाने । सनोति सण्णइ । क्षणु हिंसायाम् । क्षणोति खण्णइ । क्षिणु च-क्षिणोति खिण्णइ। ऋणु गतौ। ऋणोति अण्णइ । तृणु अदने । तृणोति तण्णइ । घृणु दीप्तौ । घृणोति घण्णइ । वनु याचने । वनोति वण्णइ । मनु अवबोधने । मनोति मण्णइ । हुकृञ् करणे। कृञः कुणो वा ॥ ३९४ ॥ कृषः कुण इत्यादेशो वा स्यात् । करोति कुणइ करइ । कृञः का भूत-भविष्यतोश्च ॥ ३९५ ॥ एतयोरर्थयोः क्त्वा-तुमुन्-तव्येषु च कृतः का इत्यादेशः स्यात् । चकार काहीअ कम्भं (१) [करिष्यति ?] काहिइ । कर्तास्मि काहं, दावत् । इति तनादयः। डुक्रीञ् द्रव्यविनिमये। क्रीञः किणः ॥ ३९६ ॥ स्पष्टम् । क्रीणाति किणइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003397
Book TitlePrakrutanand
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1962
Total Pages108
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy