SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्राकृतानन्द दूङो दूमः ॥ ३८१ ॥ स्पष्टम् । दूयते दूमइ दूमए दूमेह दूमेए । शो तनूकरणे । श्यति सोइ । दो अवखण्डने । यति दोइ । जनी प्रादुर्भावे । जायते जणह। पद गती। पदः पालः ॥ ३८२ ॥ आदेशः स्यात् । पद्यते पालइ । बुध अवगमने । युधि-बुध्योझः ॥ ३८३ ॥ एतयोर्धस्य झः स्यात् । बुध्यते बुज्झइ । युध सम्प्रहारे । युध्यते जुज्झइ । सृज विसर्गे । मृज्यते सजइ । शुष शोषणे। रुषादीनां दीर्घः ॥ ३८४ ॥ रुषादीनां दीर्घः स्यात् । शुष्यति सूसइ । तुष प्रीती। तुष्यति तूसइ । दुष वैकृत्ये । दुष्यति दूसइ । क्रुध कोपे। क्रुधे रः ॥ ३८५ ॥ स्पष्टम् । क्रुध्यति झूरइ । रुष रोषे । रुष्यति रूसइ । गृधु अभिकाङ्क्षायाम् । गृध्यति गधइ । इति दिवादयः। षु अभिषवे । सुनोति सुअइ । चिञ् चयने । चिञश्विणः॥ ३८६ ॥ चित्रः चिण इत्यादेशः स्यात् । चिनोति चिणइ । शक्ल शक्तौ । - शकादीनां द्वित्वम् ॥ ३८७ ॥ शकादीनां द्वित्वं वा स्यात् । शक्नोति सकइ । पले शकेस्तर-चअ-तीराः ॥ ३८८ ॥ अस्य यक्षरास्त्रय आदेशाः स्युः। शेक्नोति तरइ चअइ तीरइ । अशू व्याप्तौ सङ्घाते च । अनुते असइ । जिधृषा प्रागल्भ्ये । धृष्णोति धसइ । इति खादयः। .. तुद व्यथने । तुदति तुअइ । णुद प्रेरणे। । ___णुदेर्लोणः॥ ३८९ ॥ _णुदेर्लोण इत्यादेशः स्यात् । नुदति लोणइ । 'णोल' इति पाठे णोल्लइ । कृष विलेखने । कृषति कसइ, 'वृष-कृष-०' (३५४) इति अरिस्तु न, वृषसाहचर्याद् भौवादिकस्यैव ग्रहणात् । ओविजी भये । उद्विजति उव्विवइ, 'उदो विजः' (३७९) इति वः । टुमस्जौ शुद्धौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003397
Book TitlePrakrutanand
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1962
Total Pages108
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy