________________
बालशिक्षा - अष्टमः त्यादिप्रक्रमः ।
८५
वि० अक्षू | 'अक्षतेवें' ति अक्ष्णोति, अक्षति । 'तस्मान्नागमः परादिरन्तश्चेत् संयोगः ।' आनक्ष, आनक्षतुः, आनक्षुः । इट्यनिटि च आक्षीत् । आक्षिष्टाम् । आक्षुः । आक्षिषुः । अष्टा । अक्षिता । अक्षयति । आचिक्षत् | अर्द । अर्दति । आनद । 'संनिविभ्योऽर्देः', समर्णः, न्यर्णः, व्यर्णः । सामीप्ये भेः, अभ्यर्णा नदी । अर्दितमन्यत् । 'न नवदराः संयोगादयोsये', एतेन द्विरुच्यते, अर्दिदिषति । आर्दिदत् ।
अति । अन्तति । आनन्त । अन्त्यते । अन्तितिषति । आन्तितत् । अच गति - पूजनयोः । अञ्चति । अनपादाने अश्चेः समक्तः । अपादाने तु उदक्तमुदकं कूपात् उद्धृतमित्यर्थः । अश्चिता गुरवः । अश्चैः पूजायामिडिष्यते नलोपाभावश्च ।
अञ्च गतावित्यस्य अञ्चति - ते ।
अर्च । अर्चति । अनर्थ । अर्चिचिषति । आर्चिचत् । चौरादिकादयति ।
अज । अजति । असार्वधातुक० अजेर्वी । विवाय । विव्यतुः । विव्युः । व्यञ्जनादौ वेति केचित् । प्राजिता, प्रवेता । घञ् अल् क्यप्सु च न स्यात् । समाजः । उदजः । समज्या ।
अड्ड । अड्डति । दोपधोऽयम्, तस्य द्विरुक्तेरभावात् अड्डिडिषति । अम गतौ । अमति । 'वा रुष्यमत्वरसंधुषाखलाम्, अभ्यान्तः । अभ्यमितः । आमयति ।
अव् । अवति । ऊः । उवौ । उवः ।
आच्छि । आच्छति । आच्छ । आच्छतुः । आच्छुः । 'तस्मान्नागम' इत्यत्र तस्माद्दीर्घीभूतादिति व्याख्यानान्नागमो नास्ति ।
इट् । एटति । वृद्धौ ऐटत् । इयेट । ईंटतुः । ईदुः । इयेटिथ । ऐटीत् । एटिटिषति । एटयति । ऐटिटत् । मा भवानैटिटत् ।
उख । ओखति । 'उपसगवर्णस्य लोपो धातोरेदोतोः ।' प्रोखति । उवोख । खतुः । ऊखुः । इत्यादि पूर्ववत् । अटेत्यादि ।
·इ गतौ । अयति । आयत् । इयाय । ईयतुः । ईयुः । इययिथ । इयेथ ऐषीत् । ऐष्टाम् । ऐषुः । एता । ऐयात् । ईयते । ऐयत । आयि । ऐषाताम् । आयिषाताम् । एष्यते । आयिष्यते । ईषिषति । ईयिवान् । ईयानः । इदि । इन्दति । 'नाम्यादेर्गुरुमतोऽनृच्छः' इत्याम्, इन्दाञ्चकार । ऐन्दीत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org