________________
बालशिक्षा - सप्तमः संस्कारप्रक्रमः। शुष् । शुष्यति । शोष्टा । शुष्कः, शुषिपचां मकवाः।
दुष् । दुष्यति। दोष्टा । दूषयति वा। चित्तविरागे-दोषयति दूषयति वा प्रज्ञाम् ।
श्लिष् । श्लिष्यति । बाह्वालिङ्गने सण, अणोऽपवादः, आश्लिक्षत् कन्यां बटुः । बाह्रालिङ्गनादन्यत्र आश्लिषत् जतु काष्टम् । आत्मने तु सिजेव, सणोऽपवादः, व्यत्यश्लिष्ट जतु काष्ठम् । इच् पुनः स्यादेव, आश्लेषि कन्या बटुना । चौरादिकादाश्लेषयति।
क्षुध् । क्षुध्यति । क्षोद्धा । क्षुधिवसोश्च निष्ठायां चेतीट्, क्षुधित्वा । क्षुधितः।
शुध् । शुध्यति । शोद्धा।
दृप । दृप्यति । स्पृश मृश कृषि तृपि दृपिभ्यो वा इति पक्षे सिच, स्पृशादीनां वेति पक्षे धुटि गुणवृद्धिस्थाने अकारागमश्च । अदासीत्। अद्राप्सीत् । अदीत् । अदृपत् । रधादित्वाद्वेट्, दर्ता, द्रप्ता, दर्पिता । दृप्तः । ___ एवं तृप । स्वादि. तु दाद्योश्च । तृमोति, तृम्पति । अतीत् । यौजादिकस्य तर्पयति, तर्पति।
मुह मुह्यति । अमुहत् । मुहद्रुहष्णुहष्णिहां वेति पक्षे धुटि हस्य घः, मोग्धा, मोढा, मोहिता । मोक्ष्यति, मोहिष्यति । मुग्धः, मूढः। मुक् मुट् । मोमोग्धि, मोमोढि । __ एवं द्रुह् ष्णुह ष्णिहः । द्रुहस्तु आदिचतुर्थत्वं सध्वोः। ध्रोक्ष्यति, द्रोहिष्यति । ___कृश । कृश्यति । तृषि मृषि कृशि वंचि लुश्यतां चेति कृशित्वा, कर्शित्वा।
तुष हृष तुष्टौ । तुष्यति । तोष्टा । हृष्यति । अहृषत् । हृषितः । हृष् अलीके इत्यस्य तु हर्षति । अहर्षीत् । हृष्टः।
कुप क्रुध रुष रोषे। कुप्यति । क्रुध्यति । क्रोद्धा । रुष्यति । वेषुसहलुभरुषरिषां ति' इति वेट रोष्टा, रोषिता । रोषिष्यति । रुष्टः, रुषितः।
लुभ गायें । लुभ्यति । अलुभत् । लोब्धा, लोभिता । लोभिष्यति । लुब्धः। विमोहने लुभति । अलोभीत् । लोभिता ।
गृध् । गृध्यति । रु० प्रलम्भने गृधिवच्योः । गृध्यते । जरीगर्द्धि । ह्य. दिस्योः अजरीघ । सो वा धस्य रत्वे रो रे लोपमिति च कृते अजरीघाः इत्यपि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org