________________
बालशिक्षा - सप्तमः संस्कारप्रक्रमः ।
अधुक्षि । अदुह्रहि । अधुक्षावहि । अधुक्षामहि । दोग्धा । धोक्ष्यति । दुधुक्षति । दुग्धा । दुग्ध । रु० कर्मकर्तृस्थो दुहिः, दुग्धे गौः स्वयमेव । अद्यतन्यां वा, अदुग्ध, अदोहि वा गौः स्वयमेव ।
be
दिहू पूर्ववत् । रुचादित्वं तु न । लिहू । लेढि । लीढः । लिहन्ति । लेक्षि । लीढे । लिहाते । लिहते । लिक्षे । लिहाथे । लीद्वे । हौं लीढि । ह्य० दिस्योः, अलेट् । अलिक्षत् । अलीढ । अलिक्षत । अलिक्षाताम् । अलिक्षन्त । अलीढाः । अलिक्षथाः । अलिक्षाताम् । अलीद्वम् । अलिक्षध्वम् । अलिक्षि । अलिहहि । अलिक्षावहि । अलिक्षामहि । लेढा । लेक्ष्यति । लीढः ।
णिजिर् । निजि विजिविषां गुणः सार्वधातुके । नेनेति । नेनिक्तः । नेनिजानि । नेनिक्ते । हौ नेनिग्धि । अनेनेक् । अनिजत् । अनैक्षीत् । व्यञ्जनान्तानामनिटामिति वृद्धि: । अनिक्त । नेक्ता ।
विजिर् एवम् ।
विषल | वेवेष्टि | वेविष्टे । हौ वेविड्डि । अवेवेट् । अविषत् | अविक्षत । वेष्टा । इत्युभयपदिनः ।
दिवादौ - दिव् । 'नामिनोर्वोरकुर्युरोर्व्यञ्जने' इति दीर्घः, दीव्यति । दिदेविषति । दुद्यूषति । दिदिवान् । द्यूत्वा, देवित्वा । आद्यूनः । विजिगी - पायां तु द्यूतं वर्त्तते । विपि ग्रूः । देदीव्यते । देदिवीति । 'वोर्व्यञ्जने ये इति लोपे देदेति । छोः शूटौ पञ्चमे च चकारात् कौ धुट्यगुणे च वस्य ऊटू, देद्यूतः । देदिवति । एवमिदन्ताः ।
3
1
तत्रापि वि० श्रिवु । श्रीव्यति । श्रिव्यविमविज्वरित्वरामुपधया, कौ धुट्यगुणे पञ्चमे च उपधासमं वस्य ऊटू, श्रूश्रुतः ।
ष्टि क्षि ष्ठिवु लम्वाचमामनीति ज्ञापकात् धात्वादेः षः सोन, ष्ठीव्यति । भ्वादि पाठाच्च ष्ठीवति क्षेवति ।
नृती गात्रविक्षेपे । नृत्यति । कृतादेवपि सेसिचीति वेट् । नत्र्त्स्यति । नर्त्तिष्यति । नृत्तम् ।
कुथ पूति भावे । कुध्यति । कुनाति । कुथ संक्लेशे इति त्र्यादिपाठात्, थफान्तानां चानुषङ्गिणामित्यत्रानुषङ्गिणां व्यावृत्त्या व्युपधत्वेऽपि विकल्पो न स्यात्, कोथित्वा ।
पुष । पुष्यति । पुषादीनां त्यादिना अण, अपुषत् । पोष्टा । पोक्ष्यति । अन्यत्र पोषति । पुष्णाति । अपोषीत् । पोषिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org