________________
वालशिक्षा - सप्तमः संस्कारप्रक्रमः । मदी । माद्यति । अमदत् । हर्षग्लपनयोर्मदि । मदयति मित्रम् । मदयति शत्रुम् । अन्यत्र मादयति मदिरा । इति परस्मैपदिनः। . जनी।जाजनेर्विकरणे ।जायते । जज्ञे । दीपजनवुधपूरितायिप्यायिभ्यो वेति । अजनि । अजनिष्ट । ये वा, जाजायते । जञ्जन्यते । जातः । अदादिकेन जनितः।
पद् । पद्यते । अपादि । भावकर्मणोरप्येवम् । विपत्ताः, विपन्नः। पित्सते । पनीपद्यते।
मन् । मन्यते । अमंस्त । मन्ता। मतः । इत्यात्मनेपदिनः। णह् । नाति-०ते । अनात्सीत् । नद्धा । इत्युभयपदी ।
खादौ-नु स्वादेः। शक्ल। शक्नोति। शक्तः। शनुवन्ति । शक्ता। शक्ष्यति।
तुदादौ-व्यच् । तुदादेरनीत्यतोऽगुणित्वात् सं०। विचति । विव्याच । विविचतुः। विविचुः । कुटादित्वादिटोऽगुणित्वम् । विविचिथ । विचिता। वेविच्यते। इति परस्मैपदिनौ ।
- तनादौ-तनादेरुः । तनोति । तनुतः । तन्वन्ति । उकारलोपो वमोर्वा । तन्वः, तनुवः । तन्मः, तनुमः । तनुते। तन्वाते। तन्वते । हो तनु । अतनिष्ट। तनादेस्तथासोः परयोरनिट्त्वं पञ्चमलोपश्च कश्चिदित्याह । तन्मते अतत । अतथाः । थासूसहचरितस्तकारोऽप्येकवचनमस्यैव । तथा च श्रीमाघः
"अवितथा वितथाः सखि मा गिरः।" तनोतेर्यणि वा । तायते, तन्यते । तत्वा, तनित्वा । वितत्य । ततः । तितनिषति, तितंसतीति । तितांसतीति वक्तव्यम् ।
__ षण् । सनोति । सनुते । असनिष्ट । पक्षे असत । असथाः। कश्चित् धुटिखनीत्यादिना नस्यात्वे, असास्त । असास्थाः । ये वा, सायते । सन्यते । सात्वा, सनित्वा । सातः । साति । सन्तिः । सतिः। सिषणिषति ।
क्षणु । क्षणोति । क्षणुते । अक्षणीत् । क्षत्वा, क्षणित्वा । क्षतम् । - इत्युभयपदिनः।
वनु । वनुते । वान्त्वा (वत्वा?)। वनित्वा । वान्तः, वतः । वनयति। वानयति । उपसर्गे तु उपवनयति ।
मनु । मनुते । मनिता। मत्वा, मनित्वा । मनितः। इत्यात्मनेपदिनौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org