________________
बालशिक्षा- तृतीयः स्यादिप्रक्रमः । विलिङ्गाः-कटपूः कटघुवौ कटपुवः। कटमुवम् । इत्यादि । स्त्रियामप्येवम् । नित्यमप्येवम् । नित्यस्त्रीत्वाभावाद्वा नदीवद्भावो नास्ति । क्लीवे ह्रखत्वे बभ्रुवत् । टादौ खरे पुंवद्वा । कटगुणा, कटमुवा । कटपुणे, कटमुवे । इत्यादि।
एवं नतधू-सुभ्रू-अक्षयू-लू-पू-धू-परमलू-महापू-गतधू-खयंभूआत्मभू-मनोभू-प्रतिभू-मुख्याः।
परमलू-मुख्यानां अनेकाक्षरयोः । इत्यादिना वत्वे प्राप्ते 'अव्ययकारकाभ्यामेवायं विधिः।' इति भणनात् ; स्वयम्भू-मुख्यानां अव्ययकारकपरत्वादपि वत्वे प्राप्ते 'भूरवर्षाभूरपुनर्भूः।' इति निर्देशात् वत्वं न। खयम्भूरात्मभूश्च ब्रह्मा । मनोभूः कामः । एते सज्ञारूपाः पुंलिङ्गाः।
विवक्षितलिङ्गं यथा-स्वयम्भूर्देवी । मनोभु कर्म।
प्रलू अव्ययात्, यवलू कारकात्, इत्यादीनां खरे 'अनेकाक्षरयोस्त्वसंयोगाद्यवौ।' पुंस्त्रियोः।प्रलूः प्रल्वौ प्रल्वः।प्रल्वम् । इत्यादि । क्लीवे हखत्वे प्रलु वस्तुवत्। टादौ खरे पुंवद्वा। प्रलुना, प्रल्वा। इत्यादि । हे प्रलु।
एवं यवलू-क्षेत्रलू-सर्वलू - खलपू-मुख्याः । 'खलपूः स्याद् बहुकर' इति सञ्ज्ञायां पुंस्त्वमेव । अन्यथा त्रिलिङ्गत्वम् ।
प्लवङ्गमः प्लवङ्गः स्याद् वर्षाभूस्तद्वधूः ।'- इति मण्डूक्यां वर्तमानः स्त्रीलिङ्गः। वर्षाभूः वर्षाभ्वौ वर्षाभ्वः । वर्षाभ्वा । उपस्थानित्वाभावात् वा नदीवद्भावो नास्ति । नित्यस्त्रीत्वान्नित्यं नदीकार्यम् । वर्षावै । इत्यादि धूवत् । हे वर्षाभु । द्वितीयभर्तृग्रहणाय पुनर्भवतीति पुनर्भूः स्त्रीलिङ्गो वर्षाभूवत् । अर्थान्तरे त्वनदीत्वादेतौ प्रलूवत् ॥ २॥ __ऋदन्ताः पुंलिङ्गाः-पितृ । पिता पितरौ पितरः। पितरम् । पितृन् । पित्रा । पित्रे । पितुः । पित्रोः । पितणाम् । पितरि । पितृषु । हे पितः।
एवं भ्रातृ-जामातृ-मुख्याः ।
वि० नृ। 'न वा' इत्यामि नृणाम् , नृणाम् । स्त्रीलिङ्गः मातृ पितृवत् । शसि तु मातृः। नित्यस्त्रीत्वादीप्र ययो नास्ति । एवं ननान्ह -दुहित-मुख्याः । वि०-खसा नप्ता च नेष्टा च त्वष्टा क्षत्ता तथैव च ।
होता पोता प्रशास्ता च अष्टौ स्वस्रादयः स्मृताः॥ वह स्त्रीलिङ्गः। शेषाः सप्त पुंलिङ्गाः । एषां खस्रादीनां घुट्यार। खसा खसारौ खसारः । खसारम् । इत्यादि।
एवं पितृष्वस।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org