________________
कातन्त्रव्याकरणसूत्रपाठः प्रत्ययस्य। गर्ग-यस्क -विदादीनां च । भृग्वत्र्यङ्गिरसकुत्सवसिष्ठगोतमेभ्यश्च । यतोऽपैति भयमादत्ते वा तदपादानम् । ईप्सितं च रक्षार्थानाम् । यस्मै दित्सा रोचते धारयते वा तत् संप्रदानम् । य आधारस्तदधिकरणम् । १ येन क्रियते तत् करणम् ।१२ यत् क्रियते तत् कर्म । यः करोति स कर्ता। कारयति यः स हेतुश्च । तेषां परमुभयप्राप्तौ । प्रथमा विभक्तिर्लिङ्गार्थवचने।" आमन्त्रणे च।"शेषाः कर्मकरणसंप्रदानापादानखाम्यायधिकरणेषु ।' पर्यपायोगे पश्चमी। दिगितरर्तेऽन्यैश्च ।" द्वितीयैनेन ।२२ कर्मप्रवचनीयैश्च ।२३ गत्यर्थकर्मणि द्वितीया-चतुर्यो चेष्टायामनध्वनि। मन्यकर्मणि चानादरेऽप्राणिनि।२५ नमः-स्वस्ति-स्वाहा- स्वधा-ऽलं - वषड्योगे चतुर्थी।२६ तादर्थे । तुमर्थाच्च भाववाचिनः। तृतीया सहयोगे।" हेत्वर्थे । कुत्सितेऽङ्गे। विशेषणे। कर्तरि च। काल-भावयोः सप्तमी। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्ठीच ।३५ निर्धारणे च ।६ षष्ठी हेतुप्रयोगे। स्मृत्यर्थकर्मणि। करोतेः प्रतियत्ने। हिंसानामज्वरेः। कर्तृ-कर्मणोः कृति नित्यम् । न निष्ठादिषु ।२ षडो णो ने । मनोरनुस्खारो घुटि।१४ वर्गे वर्गान्तः।५ तवर्गश्च-टवर्गयोगे च-टवर्गौ।६ नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि ।४७ रवणेभ्यो नो णमनन्त्यः स्वर-ह-य-व-कवर्ग-पवर्गान्तरोऽपि । स्त्रियामादा । नदाद्यन्चिवायन्स्यन्तसखिनान्तेभ्य ई। ईकारे स्त्रीकृतेऽलोप्यः । खरो ह्रस्वो नपुंसके ।५२- इति चतुर्थः पादः । नाम्नि चतुष्टये कारकप्रकरणं समाप्तम् ॥
(१)
द्वितीयेऽध्याये पञ्चमः पादः। नाम्नां समासो युक्तार्थः । तत्स्था लोप्या विभक्तयः। प्रकृतिश्च स्वरान्तस्य । व्यञ्जनान्तस्य यत्सुभोः ॥ पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः । संख्यापूर्वी द्विगुरिति ज्ञेयः। तत्पुरुषावुभा ॥ विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु ।। समस्यन्ते. समासो हि ज्ञेयस्तत्पुरुषः स च ॥ स्यातां यदि पदे द्वे तु यदि वा स्युर्बवन्यपि। तान्यन्यस्य पदस्यार्थे बहुव्रीहिः। विदिक तथा ॥" द्वन्द्वः समुच्चयो नानोर्बहूनां वापि यो भवेत् । अल्पखरतरं तत्र पूर्वम् । यच्चार्चितं द्वयोः ॥३
(२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org