________________
बाल शिक्षा-अष्टमः त्यादिप्रक्रमः। स्वृ । स्वरति । वर्ता । खरिता। वरिष्यति । रु० समोऽकर्मका, संखरते इति परस्मैपदिनः।
धृञ् धारणे । धरति । धृङ् अवध्वंसने इत्यत्र धरते । धृङ्गः अनवस्थाने इति तौदादिकस्य ध्रियते, इरन्यगुणे। __हृञ् । हरति-० ते । रु० गत्यनुकरणे हृञ् । पैतृकमश्वा अनुहरन्ते, पितुरागतं पैतृकम् , पितृवत् अश्वा गच्छन्तीत्यर्थः । हृ प्रसह्यकरणे इत्यादादिकस्य जहर्ति । अजहरुः।।
भृश् । भरति-० ते । डु भृजित्यादादिकस्य बिभर्ति, बिभृतः, बिभ्रति। विभृते । अविभः, अविभृताम् , अविभरुः । बिभराञ्चकार, बभार । बिभरिषति, बुभूर्षति । बोभूर्यते । भ्रियते। इत्युभयपदिनः ।
अदादौ-घृ, घर्ति । ह्य० दिस्योः, अजघः। - पृ पालनपूरणयोः। पिपत्ति । अपिपः। पृ प्रीताविति सौवादिकेन पृणोति । पृङ् व्यायाम इति तौदादिकेन व्याप्रियते । पृ पूरणे इति चौरादिकेन पारयति । ___ जाय। जागर्ति, जागृतः, जाग्रति । अजागः, अजागृताम् , अजागरुः। जागराश्चकार। जजागार । अजागरीत् । जागरिता । जागर्यात् । जागराञ्चके। जजागरे । अजागारि, अजागरिषाताम् , इत्यादि। जागराञ्चकृवान् । जजागर्वान् । जागराञ्चक्राणम् । जजागरणम् । जागरितः। जागरयति । अजीजागरत् । अनेकव्यवहितेऽपि लघुनि स्यादेवेति 'गतमिति सन्वद्भावो दीर्घश्च । इति परस्मैपदिनः।
खादौ-स्तृञ् । स्तृणाति । स्तृणुते । तस्ता।
वृञ् वरणे । वृणोति । वृणुते । यादौ वृङ्संभक्तावित्यस्य वृणीते । 'वृव्येऽदां नित्यमिट् थली ति ववरिथ । ववृम । अवारीत्, अवारिष्टाम् , अवारिषुः । 'ऋतोऽवृङ् वृन' इति सेट्त्वेऽपि।
" ऋभवृडां सनीड् वा स्यादात्मने च सिजाशिषोः।" अपरं च । "ऋवृञ् वृङोऽपि वा दीर्घो न परोक्षाऽऽशिषोरिटः।। न परस्मै सिचि प्रोक्त इति योगविभञ्जनात् ।” इति ।
अवृत । अवरिष्ट, अवरीष्ट । वृषीष्ट, वरिषीष्ट । वरिता, वरीता । विवरिषति, बुवूर्षति । वियते । वृतम् । इत्युभयपदिनः ।
तुदादौ-दृङ् । आद्रियात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org