________________
बालशिक्षा-अष्टमः त्यादिप्रक्रमः । षति । दोदूयते । दोदवीति । दोदोति, दोदुतः, दोदुवति । दुदुवान् । दुदुवानः । दुत्वा । संदुत्य । दुतः। दावयति । 'इनि यत्कृतं तत्सर्व स्थानिवद्' इति न्यायात् दु इति द्विर्वचने अदूदुवत् । दुदावयिषति ।
वि० छ। द्रवति । 'सृवृभृस्तुद्रुस्रुश्रुव एव परोक्षायाम्' इत्यनिट् । दुद्रुम । थलि तु पूर्ववत् । 'श्रीगु इत्यादिना चण् । अदुद्रवत् । द्रावयति । अदुद्रवत्। श्रुद्रुस्तुमुप्लुच्युङां वा वक्तव्यम्। दिद्रावयिषति । दुद्रावयिषति।
एवं स्तु।
श्रु श्रवणे । शृणोति, शृणुतः, शृण्वन्ति । शुश्रुव । अौषीत् । २० 'समोऽकर्मकः।' संशृणुते, अंगीकरोतीत्यर्थः । रुचादौ 'श्रुरनाङ् प्रतीति । सनन्तात् शुश्रूषते । शिश्रावयिषति, शुश्रावयिषति ।
प्रसवे । सवति । अदादिकेन सौति, सुतः, सुवन्ति । सुञ् अभिषवे इति सौवादिकेन सुनोति । सुनुते । उपसर्गात् 'सुनोति-सुवति-स्यतिस्तौति-स्तोभतीनामडभ्यासान्तरेऽपीति षत्वम्, अभ्यषुणोत् । 'स्तुसुधुभ्यः परस्मै' इति सिचीट्, प्रासावीत् । सोता। इति परस्मैपदिनः।
कुङ्। कवते। अकोष्ट। 'न कवतेश्चक्रीयिते', कोकूयते खरः। कौतिकुवत्योस्तु चोकूयते।
रुङ् । रवते । रोता । रौतेस्तु रविता । 'उवर्णस्य जान्तस्थापवर्गपरस्यावर्णे' इतीत्वम् , रिरावयिषति । अरीरवत् । . अदादौ-हुङ् । अपहुते, अपहृवाते, अपहृवते । इत्यात्मनेपदिनः।
यु। यौति, युतः, युवन्ति । युहि । यविता । 'इवन्तर्धेत्यादिना सनि वेट्, यियविषति, युयूषति । 'न ,युवर्णवृतां कानुबन्धे' इति नेट्, युत्वा । युतम् । _णु । नौति । 'तुरुणुस्तुल्य ई वानदी ।' नुतः, नुवन्ति । प्रणविता । 'उवान्ताचे ति सनि नेट्, नुनूषति । नुत्वा । नुतः। आङो रु० आनुते शृगालः, उत्कण्ठापूर्व संशब्दनं करोतीत्यर्थः।
णु । क्ष्णौति । क्षणविता। चुक्ष्णूषति । क्ष्णुत्वा । क्ष्णुतम् । रु० समः क्ष्णु । संक्ष्णुते शस्त्रम् , उत्तेजयतीत्यर्थः। एवं स्लुनमौ स्वयं प्रस्तुते गौः, खयमेव पयो मुश्चतीत्यर्थः।। - टुक्षु रु कु शब्दे । क्षौति । क्षविता। चुक्षुषति । क्षुतम् । रौति । रवीति । रविता । रुरूषति । रुतम् । कौति । कोता। कौति शब्दमात्रे । कुवतिराखिरे । कवतिरव्यक्ते शब्दे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org