________________
बालशिक्षा - अष्टमः त्यादिप्रक्रमः ।
श्रिञ् । श्रयति - ते । अशिश्रियत् । श्रयिता । 'न युवर्णवृतां कानुबन्धे' इति नेट्, श्रितः । श्रित्वा । शिश्रयिषति - ०ते । शिश्रीषति - ते । ड ओवि । श्वयति - ते । श्वयतेर्वेति संप्रसारणम्, शुशाव,
ラ
शुशुवतुः शुशुवुः । शुशविथ । शिश्वाय शिश्वियतुः शिश्वियुः । शिश्वथि । पक्षे अणचणौ श्वेरद् वक्तव्यः, अश्वत्, अशिश्वियत् । अश्वयीत् । श्वयिता । शूयात् । शिश्वयिषति - ते । शोशूयते । शेश्वीयते । शूयते । शूनः । श्वाययति । अश्शवत्, अशिश्वयत् । शुशावयिषति, शिश्वाययिषति । इत्युभयपदिनः ।
अदादी - वी । वेति, वीतः, वियन्ति । अवेत्, अवीताम् | अडागमेन अनेकाक्षरत्वादियादेशबाधकं यत्वम्, अव्यन् । वाययति । 'वेतेः प्रजने' इत्यात्वम् । पक्षे पुरोवातो गाः, प्रवापयति, गर्भं ग्राहयतीत्यर्थः । स्वमते दु व प्रजनेऽपि, प्रजनं गर्भग्रहणम् ।
ञिभी । बिभेति । 'भियो वे'ति वचनादित्वं वा, बिभितः, विभीतः । बिभ्यति । अबिभयुः । विभयाञ्चकार । विभाय । अभैषीत् । मा भैषीः । मा भैरित्यपि केचित् । रु० 'हेतुकर्तृभीस्म्योरिन् ।' भियो हेतुभये वा पुक, मुण्डो भापयते, मुण्डो भीषयते । खमते भातिरिनन्तो हेतुभयेऽपि वर्त्तते । 'भीषिचिन्ती' ति वचनाद् भियः षान्तता ।
ही । जिह्रेति । जिहीतः । जिहियति । अजिहयुः । जियांचकार जिहाय । ह्रीतः, हीणः । हेपयति ।
I
कि । चिकेति । चिकितः । चिक्यति । अचिकयुः । इति परैस्मपदिनः । शीङ् । शेते, शयाते, शेरते । शयिता । अजीर्ये शाशय्यते । शेशेति । 'शीङः सार्वधातुके ।' अत्र शीङो ङानुबन्धोक्तत्वात् तदुक्तगुणो न स्यात् । 'न स्त्यनुबन्धे' त्यादिवचनात् । शेशीतः । शेश्यति । शयित्वा । अधिशय्य । शयितः ।
दीधीञ् । आदधीते, आदीध्याते, आदीध्यते । 'दीधीवेव्योरिवर्णयकारयोः' इत्यन्तलोपः, आदीधीत । 'दीधिवेग्योश्चेति पञ्चम्यां न गुणः, आदीध्यै । आदीधिता ।
एवं वेवीङ् ।
दिवादी - मी । मीयते । मेता । मित्सते । मीनः ।
दी । उपदीयते । दीङोऽन्तो यकारः खरादावगुणे, उपदिदीये । उपदाता । दिदासते । दिदीषते इति केचित् । उपदायः । दीनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org