SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्री तरुण प्रभाचार्यकृत मेधां पिपीलिका हन्ति यूका कुर्याज्जलादरम् | कुरुते मक्षिका वान्ति कुष्ठरोगं च कोलिकः ॥ कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः ॥ विलग्रश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥ प्रेक्ष्य सूक्ष्मजन्तुनि निश्यद्यात्माशुकान्यपि । अयुद्यत्केवलज्ञानैर्नादृतं निशि भोजनम् ॥ धर्मविनैव भुञ्जीत कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥ यी तेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥ नैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥ दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तद्विजानीयान्न नक्तं निशि भोजनम् ॥ देवैस्तु भुक्तं पूर्वाह्ने मध्याह्ने ऋषिभिस्तथा । अपराह्ने तु पितृभिः सायाह्ने दैत्यदानवैः || सन्ध्यायां यक्षरक्षोभिः सदाभुक्तं कुलोद्वह । सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ आयुर्वेदेप्युक्तं— ७०१-७१६ ] हृन्नाभिपद्मसङ्कोचचण्डरोचिरपायतः । अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ॥ संसजज्जीवसंघातं भुञ्जाना निशि भोजनम् । राक्षसेभ्यो विशेष्यन्ते मूढात्मानः कथं न ते ॥ वासरे च रजन्यां च यः खादन्नैव तिष्ठति । शृङ्गपुच्छ्परिभ्रष्टः स्पष्टं स पशुरेव हि ।। अहो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥ अकृत्वा नियमं दोषाभोजनादिनभोज्यपि । फलं भजेन्न निर्व्याजं न वृद्धिर्भाषितं विना ॥ ये वासरं परित्यज्य रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं काचमाददते जडाः || Jain Education International For Private & Personal Use Only [ ७०१] [ ७०२ ] [ ७०३] [ ७०४ ] तद्यथा । [ ७०५] 10 [ ७०६ ] [ ७०७ ] [ ७०८] [ ७०९ ] [ ७१० ] [ ७११] [७१२] [ ७१३] १७५ [ ७१४ ] [ ७१५] [ ७१६ ] 5 15 20 25 30 www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy