SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (494 ) ६६८-६८३ ] श्री तरुणप्रभाचार्यकृत दोषाणां कारणं मद्यं मद्यं कारणमापदाम् । रोगातुर इवापथ्यं तस्मान्मद्यं विवर्जयेत् ॥ इति मद्यदोषाः । $494) विखादिपति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाऽऽख्यं धर्मशाखिनः ॥ अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ हन्ता पलस्य विक्रेता संस्कर्त्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ।। अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्ता च खादकचेति घातकाः ।। नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यन्न वधको भक्षकं विना ॥ मिष्टान्नान्यपि विष्टासादमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ।। मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याधगृध्रवृकव्याघ्रसृगालास्तैर्गुरुकृताः ॥ मांसखा दयिताऽमुत्र यस्य मांसमिहाद्यहम् | एतन्मांसस्य मांसत्वे निरुक्तं मनुरब्रवीत् ।। मांसास्वादन लुब्धस्य देहिनं देहिनं प्रति । हन्तुं प्रवर्त्तते बुद्धिः शाकिन्या इव दुर्धियः ।। ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य भुञ्जते ते हलाहलम् || न धर्मो निर्दयस्यास्ति पलादस्य कुतो दया | पललुब्धो न तो विद्याद्वोषदिशेनहि ॥ केचिन्मांसं महामोहादश्नन्ति न परं स्वयम् । देवपित्रं तिथिभ्योऽपि कल्पयन्ति यदूचिरे ॥ क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपहृतमेव वा । देवान् पितॄन् समभ्यर्च्य खादन्मांसं न दुष्यति ।। मन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् । भवेज्जीवितनाशाय हालाहललवोपि हि || Jain Education International For Private & Personal Use Only १७३ [ ६६८ ] [ ६६९ ] [ ६७० ] [६७१] [ ६७२ ] [६७३ ] [ ६७४ ] [६७५] [ ६७६ ] [६७७] [६७८ ] [ ६७९ ] [ ६८० ] [ ६८१ ] [ ६८२ ] [ ६८३ ] 5 10 15 20 25 30 www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy