________________
देवपूजाविधि ।
१२५ त्रयं चैतत् - उदिन्नादाणमुणियेत्यादि १, 'पाणय दसमे'त्यादि २, 'बायासीदिणेहिं' इत्यादि ३ । ततः सप्रतिम छत्रं दक्षिणदिग्गूहलिकां नीत्वा तत्रोत्साहद्वयं 'वित्तचलक्खे'त्यादि, 'मेरुसिरुम्मी'त्यादि च पठित्वाऽक्षतपुंजिकात्रयं पूपिकाश्च दद्यात् । एवं पश्चिमदिशि 'जम्मि जिणिंदवंदे'त्यादि 'गुरुवहुमाणे'त्यादि चोत्साहद्वयम् , तथैवोत्तरस्याम् –'उत्तरफाल्गुणीसु'-'रयणवण्णे'त्यादिचोत्साहद्वयं पठेत् । ततः पुनरग्राहलिकामागते छत्रे 'वरपावापुरीइ' इत्यादि 'ता सक्कीसाणचमरे'त्यादिना चोत्साहद्वयेन पुष्पांजलिं प्रक्षिप्य, लवणपानीयारात्रिकावतारणं विधाय, जलधारादानातोद्यवादनापूर्वकं छत्रप्रतिमां खात्रपीठमानयेत् । पीठे संस्थाप्य ततः 'सद्वैद्यां' इत्यादि प्रागुक्तक्रमेण सपनं कुर्यात् । इति छत्रभ्रमणविधिः ।
अथ पञ्चामृतस्नात्रविधिः- तच्च छत्रभ्रमणकृते वा 'जम्ममजणे ति वृत्तपंचकेन प्रथमं गन्धोदकखानपर्यन्तं विधिं कृत्वा, 'मीनकुरंगमदेति धूपं दत्त्वा, ततो 'नमोऽर्हत्सिद्धेति भणनपूर्व 'महुरो सुर होडति गाथयेक्षरसस्नानं विदध्यात् । ततो 'मीनकरंगमदेति धूपः । एवं वक्ष्यमाणसर्बस्नानान्तरालेवनेनैव ॥ धूपं दद्यात् । ततः 'पायात् स्निग्धमपी'त्यार्यया घृतस्नानं, ततः पिष्टादिभिः स्नेहमुत्तार्य 'उचितमभिषेके - त्यार्यया 'वहइ सिरिं तियसगणेति गाथया वा दुग्धस्नानम् । तत. 'उवणेउ मंगलं वो' इत्यादि गाथाद्वयेन दधिस्नानम् । तत एकोनविंशत्या 'अभिषेकपयोधारे त्यादिभित्तैराद्यान्त्यवृत्तयोर्नमोऽहत्सिद्धाचार्यत्युच्चारयन्नेकोनविंशतिगन्धोदकेन धारा देवशिरसि दद्यात् । ततः पंचधारकं तत्र प्रथमं 'सर्वजित०' इति वृत्तेन सर्वोषधिस्नानम् । ततः 'स्वामिन्नित्य'मिति वृत्तेन जातीफलादिसौगन्धिकस्नानम् । ततः 'स्वच्छतयेति ।। वृत्तेन शुद्धजलस्नानम् । ततः कथमय'मिति वृत्तेन कुङ्कुमस्नानम् । ततश्च 'भवती लघोरपी'ति वृत्तेन कुड्डमचन्दनस्नानम् - इति पंचधारकम् । ततः 'कुंकुमहद्यं द्यो मिति वृत्तेन चन्दनविलेपनः । ततः 'उपनयतु भवांत मिति वृत्तेन कस्तूरिकामयपटुं कुर्यात् । ततो 'भाति भवतो ललाटे' इति वृत्तेन गोरोच्नया सर्षपेश्व देवस्य तिलकं कुर्यात् । ततो 'मेरो नन्दनपारिजाते'त्यादिवृत्तसप्तकेन क्रमात् सप्त कुसुमांजलीन् क्षिपेत् । ततः पूजाकारोऽधिवासिते कलशचतुष्टये स्नपनकारैर्गृहीते सत्येकं प्रतिमायाः पुरतः स्थित्वा 'कपूरस्फुट- 20 भिनेत्यादिवृत्तद्वयेन कुसुमांजलिद्वयं प्रक्षिपेत् । पश्चात् कलशचतुष्टयेन स्नपनकाराः स्नानं कुर्युः । तदनन्तरमाहारस्थालं भगवतः पुरो दध्यात् । ततः परिधापनिकां लवणजलारात्रिकावतारणं मङ्गलप्रदीपं च प्रागवत् कुर्यात् - इति पञ्चामृतस्नानम् १ । ___एतच्च विशेषपर्वसु विघ्नशान्त्यै निरुपाधिवासनामात्रेण वा कुर्यात् । इदं च प्रायो दिक्पालादिस्थापन विना न भवतीत्यष्टाहिकाधुपयोगी तद्विधिः प्रदर्श्यते –'सद्वेद्यां भद्रपीठे' इति वृत्तद्वयेन कुसुमांजलिप्रक्षेप- 24 पर्यन्तं विधि विधाय, पट्टकं प्रक्षाल्य, देवपादपीठाग्रे निश्चलीकृत्य 'ज्ञानदर्शनचारित्रे'त्यादि वृत्तत्रयेण तत्र पट्टके पंचविंशतिं पूंजिकाः कुर्यात् । पुंजिकाशब्देन कुंकुममिश्रचन्दनटिक्कका ज्ञेयाः । क्रमश्वायम् - ज्ञान १ दर्शन २ चारित्र ३; वासव १ सोम २ यम ३ वरुण ४ कुवेर ५; शासनयक्ष १ शासनयक्षिणी २; आदित्य १ सोम २ मंगल ३ बुध ४ बृहस्पति ५ शुक्र ६ शनैश्चर ७ राहु ८ केतु ९; साधर्मिकदेवता १............भद्रकदेवता ३ क्षेत्रदेवता ४ देशदेवता ५ आगंतुकदेवता ६-एवं २५ । । स्थापना चेयम् -
एवं पंचविशति पुंजिकाः कृत्वा बलिपुप्पधूपवासपूपिकादधिदुर्वाभिः प्रपूज्य, पुंजिकासु ..:. 'वये देवा' इति वृत्तनाग्खण्डितं जलधारादानं कुर्यात् । तत एकः फालिपत्रपर्पटादि• सो वा व ० . मिश्रवकुलादिप्रक्षे पबलिभाजनं गृह्णीयात् , अन्यो धारादानार्थं धारघटीम् , अपरश्च १००० कु ०००
धूपदानम् , अन्यश्च पुप्पादीनि यथासंभवं वा। ततः प्रतिमाभिमुखां दिशं पूर्वी परिभाव्य 5 तत्संमुखं भूत्वा 'ऐरावतसमारूढ' इति वृत्तं पठित्वा प्रक्षेपबलिं प्रक्षिपेत् । 'एकं सदा वह्निदशेने'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org