________________
१२४
देवपूजाविधि। दन्ता अधिकाः स्युः । ततश्चलपतिमां नपनीठे स्थापयेत् सृष्ट्या च प्रतिमाया जलधारां भ्रामयेचन्दनेन च पूजयेत् । ततः शक्रस्तवभणन-साधुवन्दने कुर्यात् । स्थिरप्रतिमानां तु स्थानस्थितानामेव कुसुमांजल्यादिसर्व कर्तव्यम् । ततः कुसुमांजलिं गृहीत्वा 'प्रोद्भूतभक्तिभरे' त्यादिवृत्तपंचकं भणित्वा प्रतिमायास्तं क्षिपेत् । ततो निर्माल्यमपनीय प्रतिमां प्रक्षाल्य पूजयेत् । ततः 'सद्वेद्यां भद्रपीठे' इत्यादिवृत्तद्वयेन कुसुमांजलिं 5 क्षिपेत् । ततः सर्वोषधिं गृहीत्वा 'मुक्तालंकारे त्यार्यया पुप्पालंकारावतारणे कृते सर्वौषधिस्नानं कारयेत् । ततः प्रक्षाल्य संपूज्य च प्रतिमाया 'भव्यानां भवसागरे' इतिवृत्तेन धूपमुत्क्षिपेत् । ततः एकं पुप्पं समादाय 'किं लोकनाथेति वृत्तं भणित्वा उप्णीषदेशे पुष्पमारोपयेत् । ततः कलशद्वयं कलशचतुष्टयादि वा प्रक्षाल्य धूपपुष्पचन्दनवासाद्यैरधिवास्य कुङ्कुमकर्पूरश्रीखण्डादिसंपृक्तसुरभिजलेन भृत्वा पिहितमुखं पट्टके चन्दनकृतस्वस्तिके संस्थापयेत् । ततः कुसुमांजलिपंचकं क्रमेण 'बहलपरिमले'त्यादि मात्रावृत्तपंचकं पठित्वा 10 क्षिपेत् । नवरमाद्यान्त्यवृत्तयोर्नमोऽर्ह सिद्धेत्यादि भणेत् । वृत्तान्ते तु शङ्खभेरीझलादिठणत्कारं मन्द्रं दधुः
शाक्षिकाद्याः कलशान् भृत्वा कुसुमांजलिपंचकं क्षिपेत् , क्षित्वा वा कलशान् भरेदुभयथाऽप्यदोषः । तत इन्द्रहस्तान् प्रक्षाल्य हस्तयोर्भाले च चन्दनतिलकान् कृत्वा, नपनक्रियद्रव्यनिक्षिप्त सकलसंघानुमत्या कलशानुत्थाप्य, नमोऽर्हत्सिद्धेत्यधीत्य 'जम्ममजणि जिणहवीरस्से' त्यादि कलशवृत्तेषु जन्माभिषेककलशवृत्तान्तरेषु वाऽन्यः पठितेषु तदभावे स्वयं वा भणितेपु, कुम्भपिधानान्यपनीय, पंचशब्दे वाद्यमाने श्राविकासु जिन' जन्माभिषेकगीतानि गायन्तीपूभयतोऽप्यखण्डधारं सपनं कुर्वन्ति, द्रष्टारश्च जिनमज्जनप्रतिबद्धहृयपद्यानि पठन्ति, मुहुर्मुहुर्मूर्धानं नमयन्ति । यच्च स्त्रात्रे जलं मू द्यङ्गेषु केचिलगयन्ति तद् गतानुगतिकं मन्यन्ते गीतार्थाः । श्रीपादलिप्ताचार्यायैस्तन्निषेधात् । तथा च तद्वचः-'निर्माल्यभेदाः कथ्यन्ते - देवखं देवद्रव्यं नैवेद्यं निर्माल्यं चेति । देवसंबन्धिग्रामादि देवस्वम् , अलंकारादि देवद्रव्यम् , देवार्थमुपकल्पितं नैवेद्यम्।
तदेवोत्सृष्टं निवेदितं बहिः निक्षिप्तं निर्माल्यं पंचविधमपि निर्माल्यं न जिनेन्न च लंघयेन्न च दद्यान्न च 20 विक्रीणीत । दत्त्वा कव्यादो भवति, भुक्त्वा मातंगः, लंघने सिद्धिहानिः, आघ्राणे वृक्षः, स्पर्शने स्त्रीत्वम् , विक्रये शबरः । पूजायां दीपालोकनधूपामात्रादिगन्धे न दोषः । नदीप्रवाहनिर्माल्ये चेति कृतं प्रसंगेन । ततः शुद्धोदकेन प्रक्षालं कृत्वा धूपितवस्त्रखण्डेन प्रतिमां कृषित्वा चन्दनेन समभ्यर्च्य समालभ्य वा पुष्पपूजां विधाय 'मीनकुरंगमदेति वृत्तेन धूपमुग्राहयेत् । तत आहारस्थालं दद्यात् । ततः परिधापनिकां प्रतिलिख्य करयोरुपरि निवेश्यैकस्मिन् धूपमुद्राहयति सति पुष्पचन्दनवासैरधिवास्य 'नमोऽर्हत्सिद्धाचार्ये' त्यादि 2: भणित्वा, 'शको यथा जिनपते'रिति वृत्तद्वयमधीत्य सोत्सवं देवस्योपरिष्टादुभयतो लम्बमानां निवेशयेत् ।
ततः कुसुमांजलिवर्ज लवणजलारात्रिकावतारणं मङ्गलदीपान् प्राग्वत् कुर्यात् । नवरं लवणाद्यवतारणेषु तथैव प्रतिवृत्त वादित्रमन्त्रध्वनि कुर्यात् । ततो यथासंभवं गुरुदेशनां श्रुत्वा स्वगृहमेत्य सपनकारादिसाधर्मिकान् भोजयेदित्योघतः स्नपनविधिः।
यस्य पुनर्विशेषपर्वापेक्षया छत्रभ्रमणं प्रति भावना भवति, स प्राग्वत् स्लपनमारभ्य यावत् 'प्रोद्भूतभक्ती'७ त्यादिवृत्तैः कुसुमांजलिं प्रक्षिप्य निर्माल्यमपनीय पूजां च कृत्वा, स्वपनपीठस्थाया एकस्याः प्रतिमायाः पुरतः 'सरससुबंध' इति वृत्तेन कुसुमांजलिं क्षिपेत् । ततस्तस्याः प्रतिमाया 'हिययाइं पडत'मिति गाथया स्नानं कुर्यात् । तदनन्तरं स्थाले चन्दनेन स्वस्तिकं कृत्वा, तत्र पीठात् तां प्रतिमां धारयेत् । ततश्च पुरतः स्थाल एवाक्षतपुंजिकात्रयं न्यसेत् । अनन्तरं जलधारादानपूर्वमातोद्यवादनापूर्व च छत्रतले प्रतिमां नयेत् । ततो देवस्याग्रभागादारभ्य प्रथमामथ(:) कृते गूंहलिकेति रूढे गोमयगोमुखचतुष्टये प्रथमगूहलिकायामक्षतपुंजिकात्रयं 35 पूपिकाश्च दद्यात् । ततः पुप्पांजलिमुपादाय क्रमेणोत्साहत्रयं पठित्वा, एकैकं कुसुमांजलिं प्रक्षिपेत् । उत्साह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org