________________
प्रतिष्ठाविधि। दर्शनं च । ततः प्रियंगुकर्पूरगोरोचनाहस्तलेपो हस्ते दीयते । अधिवासनामंत्रेण करे पार्श्वत ऋद्धिवृद्धिसमेत विद्धमदनफलाख्यकंकणबन्धनम् । स चायम् -'ॐ नमो खीरासवलद्धीणं, ॐ नमो महुयासवलद्धीणं, ॐ नमो संभिन्नसोईणं, ॐ नमो पयाणुसारीणं, ॐ नमो कुट्टबुद्धीणं, जमियं विजं पउंजामि सा मे विजा पसिज्जउ, ॐ अवतर अवतर सोमे सोमे कुरु कुरु ॐ वग्गु वग्गु निवग्गु सुमणे सोमणसे महुमहुरे कविल ॐ कक्षः खाहा' - अधिवासनामंत्रः । यद्वा-ॐ नमः शान्तये हूं झू हूं सः' - कंकणमंत्रः। अधिवासना- . मंत्रेणैव-ॐ स्थावरे तिष्ठ तिष्ठ स्वाहा'- इति स्थिरीकरणमंत्रेण वा मुक्ताशुक्त्या बिम्बे पञ्चांगस्पर्शः । मस्तक १ स्कन्ध २ जानु २ वारसप्त सप्त चक्रमुद्रया वा । धूपश्च निरंतरं दातव्यः । परमेष्ठिमुद्रां सूरिः करोति । पुनरपि जिनाह्वानम् । ततो निषद्यायामुपविश्यासनमुद्रया मध्यात्प्रभृति नन्द्यावर्त्तमामकर्पूरेण पूजयेत् । वक्ष्यमाणक्रमेण सदशाव्यंगवस्त्रेण तमाच्छादयेत् । तदुपरि नालिकेरप्रदानम् । तदुपरि संकल्पमात्रेण प्रतिष्ठाप्य बिम्बस्थापनं चलप्रतिष्ठाख्यापनाय । ततः प्रधानफलैनन्द्यावर्तस्य पूजनं चतुर्विंशत्या पत्रैः ।। पूर्णश्च पूजनीयः । ततो विचित्रबलिविधानम् । यथा - जंबीर-बीजपूरक-पनसाम्र-दाडिमेक्षुवृक्ष-इत्यादिफलढौकनम् । ततश्चतुःकोणकेषु वेदिकायाः पूर्व न्यस्तायाश्चतुस्तन्तुवेष्टनम् ,. चतुर्दिशं श्वेतवारकोपरि गोधूमबीहि-यवानां यववारकाः स्थाप्याः । ततो द्राक्षा-खजूर-वर्षोलक-ऊतती-अक्षोटक-वायम्व-इत्यादिढौकनम् । ततो बाटु-खीरि-करंखुउ-कीसरि-कूर-सींर्धवडि-पूयली-सरावु ७ दीयन्ते । काकरिया मुगसत्का ५, यवसक ५ गोहू ५ चिणा ५ तिलसत्क ५ सुहाली खाजा लाडू मांडी मुरकी इत्यादि प्रचूरबलिदौकनम् । पुनः सूत्र- 15 सहितसहिरण्यचंदनचर्चितकलशाश्चत्वारः प्रतिमानिकटे स्थाप्यन्ते । घृतगुडसमेतमंगलप्रदीप ४ खस्तिकपट्टस्य चतसृष्वपि दिक्षु सकपर्दक-सहिरण्य-सजल-सधान्य-चतुर्वारकस्थापनम् । तेषु च सुकुमालिकाकंकणानि करणीयानि, यववाराश्च स्थाप्याः । पूर्णकौसुम्भरक्तवस्त्रसूत्रेण चतुर्गुणं वेष्टनं वारकाणाम् । ततः शक्रस्तवेन चैत्यवन्दनं कृत्वा अधिवासनालमसमये कण्ठे कुसुम्भसूत्रेण पुष्पमालासमेतऋद्धिवृद्धियुतमदनफलारोपणपूर्वकं चन्दनयुक्तेन पुष्पवासधूपप्रत्यप्राधिवासितेन वस्त्रेण सदशेन वदनाच्छादनं माइसाडी चारोप्यते । तदुपरि । चन्दनच्छटा सूरिणा सूरिमंत्रेणाधिवासनं च वारत्रयं कार्यम् । ततो गन्धपुष्पयुक्तसप्तधान्यसपनमञ्जलिमिः । तच्चेदम् - शालि-यव-गोधूम-मुद्ग-वल्ल-चणक-चवला इति । ततः पुष्पारोपणं धूपोत्पाटनम् । ततस्त्रीभिरविधवाभिश्चतसृभिरधिकाभिर्वा प्रोक्षणकम् , यथाशक्ति हिरण्यदानं च । ताभिरेव पुनः प्रचुरलड्डुकादिबलिकरणम् । ततः पुटिका ३६० दीयन्ते । साम्प्रतं क्रयाणकानि ३६० संमील्य एकैव पुटिका शरावे कृत्वा प्रतिमाग्रे दीयते, इति दृश्यते । ततः श्राद्धा आरत्रिकावतारणं मंगलप्रदीपं च कुर्वन्ति । चैत्यवन्दनं कायो- 25 त्सर्गोऽधिवासनादेव्याश्चतुर्विशतिस्तवचिन्तनम् । तस्या एव स्तुतिः
विश्वाशेषेषु वस्तुषु मढर्याऽजस्रमधिवसति वसतौ ।
सेमामवतरतु श्रीजिनतनुमधिवासनादेवी ॥१॥ यद्वा - पातालमन्तरिक्षं भवनं वा या समाश्रिता नित्यम् ।
साऽत्रावतरतु जैनी प्रतिमामधिवासनादेवी ॥२॥ ततः श्रुतदेवी १ शान्ति २ अम्बा ३ क्षेत्र ४ शासनदेवी ५ समस्तवैयावृत्त्य ६ कायोत्सर्गः।
या पाति शासनं जैनं सद्यः प्रत्यूहनाशिनी।
साभिप्रेतसमृद्ध्यर्थं भूयाच्छासनदेवता ॥१॥ पुनरपि धारणोपविश्य कार्या सूरिणा-'खागता जिनाः सिद्धा-' इत्यादिनेति। अधिवासनाविधिरयम् । 1 'विलतंतुलमाषाः समराद्धाः। 2 'चूरिमानी पींडी' इति टिप्पणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org