SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ विधिप्रपा इन्द्रमग्निं यमं चैव नैऋतं वरुणं तथा। वायुं कुबेरमीशानं नागान् ब्रह्माणमेव च ॥१२॥ आँ इन्द्राय आगच्छ आगच्छ अर्घ प्रतीच्छ प्रतीच्छ पूजां गृह गृह खाहा' - एवमेव शेषाणामपि नवानां आह्वानपूर्वकं अर्घनिवेदनं च । ततः कुसुमस्नानम् ११ - अधिवासितं सुमनः सुमनः किंजल्कराजितं तोयम् । तीर्थजलादिसु पृक्तं कलशोन्मुक्तं पततु विम्बे ॥ १३ ॥ ततः सिहक-कुष्ट-सुरमांसि-चंदन-अगरु-कर्पूरादियुक्तगन्धनानिकास्नानम् १२ - गन्धाङ्गलानिकया सन्मृष्टं तदुदकस्य धाराभिः । लपयामि जैन विम्बं कौघोच्छित्तये शिवदम् ॥ १४॥ गन्धा एव शुक्लवर्णा वासा उच्यन्ते, त एव मनाक् कृष्णा गन्धा इति । ततो वासस्नानम् १३ हृयैराल्हादकरैः स्पृहणीयैर्मसंस्कृतैजैनम् ।। लपयामि सुगतिहेतोर्षिम्बं अधिवासितं वासैः ॥ १५ ॥ ततश्च चन्दनस्नानम् १४ - शीतलसरससुगन्धिर्मनोमतश्चन्दनद्रुमसमुत्थः। चन्दनकल्कः सजलो मत्रयुतः पततु जिनबिम्बे ॥ १६ ॥ ततः कुंकुमस्नानम् १५ काश्मीरजसुविलिप्तं बिम्बं तन्नीरधारयाऽभिनवम् । सन्मनयुक्तया शुचि जैनं लपयामि सिद्ध्यर्थम् ॥ १७ ॥ तत आदर्शकदर्शनं शंखदर्शनं च बिम्बस्य । ततस्तीर्थोदकस्नानम् १६ जलधिनदीह्रदकुण्डेषु यानि तीर्थोदकानि शुद्धानि । तैमसंस्कृतैरिह विम्बं लपयामि सिद्ध्यर्थम् ॥ १८ ॥ ततः कर्पूरलानम् १७ - शशिकरतुषारधवला उज्ज्वलगन्धा सुतीर्थजलमिश्रा । कर्पूरोदकधारा सुमन्त्रपूता पततु बिम्बे ॥ १९ ॥ ___25 ततः पुष्पाञ्जलिक्षेपः १८ - नानासुगन्धपुष्पौधरञ्जिता चश्चरीककृतनादा। धूपामोदविमिश्रा पततात् पुष्पाञ्जलिबिम्बे ॥२०॥ ततः शुद्धजलकलश १०८ स्नानम् १९चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभि नृत्यन्तीभिः सुरीभिर्ललितपदगमं तूर्यनादैः सुदीप्तैः । कर्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भै जैनं बिम्बं प्रतिष्ठाविधिवचनपरः लापयाम्यत्र काले ॥ १९॥ तत आचार्यमंत्रेणाधिवासनामंत्रेण वाऽभिमंत्रितचन्दनेन सूरिमिकरधृतदक्षिणकरेण प्रतिमा सर्वाङ्गमालेपयति, कुसुमारोपणं धूपोत्पाटनं वासनिक्षेपः सुरभिमुद्रादर्शनम् । पद्ममुद्रा ऊर्ध्वा दर्शाते, अञ्जलिमुद्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003393
Book TitleVidhi Marg Prapa
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2000
Total Pages186
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy