SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ त्रितीया वणिः। विज्ञप्तिसत्रिवेण्यां सूक्तलसल्लहरिवारहारिण्याम् । । गुणगृह्यनिपुणमानसवृन्दानि स्नान्तु चिरकालम् ॥ १ ॥ जलंधि-वसु-भुव॑न-सङ्ख्ये वर्षे माघे सिताष्टमीदिवसे । रविसुतवारे रुचिरे समर्थितोऽयं महालेखः ॥ २ ॥ यन्यूनं यच्चाधिकमसङ्गतं वा यदत्र लिखितं स्यात् । तच्छोध्यं धीमद्भिर्यतः सतां रीतिरियमेव ॥ ३ ॥ किं च श्रेष्ठिनो नरसिंहस्य तनयो विनयावनिः । भोजाख्यः साक्षरः क्षिप्रं प्राञ्जलिः प्रणमत्यसौ ॥ ४ ॥ विशेषस्वरूपावली""ज्ञाप्या निष्पन्नेयं विज्ञप्तित्रिवेणीनामग्रन्थ पद्धतिः। संवत् १४८४ वर्षे माघमासि दशम्याम् ॥ द्विवन्दनीकगच्छीयाः श्रीदेवगुप्तसूरयः श्रीसाधुरत्नोपाध्याया वा यदीह स्युस्तदा तेषां विशिष्यास्मदीया प्रतिपत्तिरौचित्येन प्रकाश्यति ॥ शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ १ ॥ भद्रमस्तु जिनशासनाय । स्वस्ति श्रीसङ्घाय । आयुष्यमस्तु गुणगृह्येभ्यः । समाधिरस्तु स्वयथ्यानामिति ॥ (ग्रंथानं १०१२) विज्ञप्तित्रिवेणिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy