SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ तृतीया वेणिः । वर्णनीय यशोराशिव विततलोचनः । वरदो मम सम्भूयाद् वर्यस्ताररबो गुरुः ॥ १ ॥ आलवाल तुलं येषामभिधानं स्थिरीकृतौ । ललल्लक्ष्मीमहाकारस्करस्यारं निरन्तरम् ॥ १ ॥ ( स्वस्तिक बन्धने काव्यम् । ) ६३ ( चामरबन्धः 1 ) प्रीतिस्फीतिततिं येषां प्रशस्याssस्यशशी नयेत् । सुसाधुजनताचेतः श्रोतः कान्तं ततं स्मितम् ॥ २ ॥ ( चामरः । ) Jain Education International एवं पूज्यगुणोद्गानविधानमुखराननः । श्रीजिनभद्रसूरीन्द्रान् वन्दते सोमकुञ्जरः ॥ १ ॥ दोषज्ञहस्तीन्द्रसुरेश कुञ्जराः सन्मानसाम्भोनिधिशर्वरीवराः । भूयो गुणश्रेणिहिरण्यमन्दिरं जयन्ति ते श्रीगुरवो निरन्तरम् ॥१॥ विद्यावली वल्लिवरेण्यमण्डपं कृपापयोधारणविस्फुरन्निपम् । वचश्वयैरञ्जित सर्वविष्टपं गुरुं स्तुवे पादनतोरुभूमिपम् ॥ २ ॥ गुणालिताराधरणान्तरिक्षं विध्वस्तसम्मोहमहाविपक्षम् । नीरन्ध्रदोषोत्करभेददक्षं गुरुं स्तुवेऽहं सुयशोवलक्षम् || ३ ॥ यच्छति स्फीतिसन्तोषं यद्भारती सभासदम् । यथाम्भोदपयोधारा राजत्सारङ्गसन्ततेः ॥ १ ॥ ( आसनबन्धेन वृत्तम् । ) नरक संहरणे कमलाघवः सदवनीनलिनीनलिनीधवः । कविजनग्रहराशितमीधवः शुचिधियेऽस्तु गुरुर्मधुरारवः ॥ ४॥ भुवनमन्दरशैलसुरागमं जिनपशासनभासनसोद्यमम् । विमलचेतनयावगतागमं गुरुवरं प्रणुमः सुगुणोत्तमम् ॥ ५ ॥ कल्याणवारांकुरवृद्धिनीरदाः कारुण्यभूयो लहरीलसन्नदाः । सुसेवकानां सुतरामभीष्टदा जयन्तु पूज्याः परिणामिसम्मदाः ॥ ६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003389
Book TitleVignaptitriveni
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1916
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy