________________
द्वितीया वणिः।
४९ तमना मनुजेश्वरोऽस्मत्सनाथस्य सङ्घस्य सर्वस्यापि बहुमानसारं सत्कार चकार । ' अहो ! आईतो धर्मो विजयते ! धन्यमिदं मतान्तराजय्यं श्रीजिनशासनम्, यत्रै विद्वत्तादिगुणा निरुपमाना विभान्तीति । ' अनन्तरं च चञ्चच्चन्द्रकान्तादिविविधवर्णदेवताल कृतं देवागारं स्वकीयं दर्शितवान् । अचकथच्च स्ववीणान्, 'यदस्य सङ्घस्य प्रवेशनिर्गमयोर्न स्खलना कार्या । ' अथ ' प्रत्यासीदति नः सान्ध्यो विधिः' इत्यादिना प्रतिगमनाय प्रत्याय्यमानोऽस्माभिः कथञ्चिदेवं महाप्रणयाविर्भावकमिदमवादीत् ।
मा गा इत्यपमङ्गलं, ब्रज इति स्नेहेन हीनं वचः,
तिष्ठेति प्रभुता, यथारुचि कुरुष्वैषाऽप्युदासीनता । किं ते साम्प्रतमाचरामि हितमेतत्सोपचारं वचः
स्मर्त्तव्या वयमादरेण भवता भूयात्पुनदर्शनम् ॥ १ ॥
ततस्तमापृच्छ्य श्रीजिनशासनप्रोन्नतिदर्शनोत्सर्पत्प्रमोदप्लुतहदयाः स्वमठमागताः । अथाऽपरेाश्चातुर्वर्णवन्द्यमानार्हडिम्बभूषितेषु तेषु चतुर्वपि प्रासादेषु महत्युत्सवे श्रीदेवमहापूजावसरे क्रमेण श्रीसङ्घश्रावका गन्धोदकसम्भृतैः स्वर्णकलशैः श्रीजिनचन्द्रपादान् दर्शनदत्तमनःप्रसादान यथाविध्यसिस्नपन् । तदनु सुलभैः शुभगन्धबन्धुरचम्पकपवित्रशतपत्रप्रफुल्लमालतीजात्यादिजात्यपुष्पैर्बहुभङ्गीभिरपूपुजन् । पेशलफलपक्वान्नाक्षतादिबलिं पुरो जगद्गुरूणामुपाहरंश्च। ततश्च चतुर्विधश्रीधर्मास्थास्थेमोत्पादकेषु चतुर्वपि काञ्चनकुम्भोपलम्भसम्भावितद्रष्ट्रमनःप्रसादेषु प्रासादेषु गभांगारादाराभ्यादण्डकलशावलम्बिनो ध्वजान् व्यदीधपन् । तदा च रेणुर्वाद्यानि, जगुः कुलनार्यः, नृत्यन्ति स्म विस्मेरास्या नागर्यः, ददुहल्लीसकानि बालाः, ताड्यन्ते तालाः, खेलन्ति खेलास्ते चात्यन्तं सहेलाः, दी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org