________________
[गाथा २०७-२१२]
प्रश्नव्याकरणाख्यं
तइए णवमे य सरे, पाडिवओ [प० ११२, पा० १] होइ सुक्कपक्खस्स । गायक्खरेसु सत्तसु, णवमादी पुण्णिमा जाव ॥ २०७ ॥
तृतीयस्वर इकारः, नवमस्वर ओकारः । एतबहुले शुक्लपक्षस्य प्रतिपदा भवति । गकारबहुले प्रश्ने नवमी। जकारबहुले दशमी । डकारबहुले एकादसी (शी)। दकाराधिक्ये द्वादशी। धकाराधिके त्रयोदशी । लकाराधिके [प० ११२, पा० २] चतुर्दशी । सकारबहुले पूर्णमासी ।। २०७ ॥ ।
अट्ठम-बितिए य सरे, पाडिवओ होइ किण्हपक्खस्स ।
खादक्खरेसु सत्तसु, बितियादी अट्ठमी जाव ॥ २०८ ॥ द्वितीयस्वर आकारः । अष्टमस्वर ऐकारः । एतद्बहुले प्रश्ने कृष्णपक्षस्य प्रतिपद् भवति । खकाराधिके द्वितीया। छकाराधिके तृतीया । ठकाराधिके चतुर्थी । थकाराधिके पंचमी । फकाराधिके षष्ठी। रकाराधिके सप्तमी । पकाराधिके अष्टमी । तस्यैव कृष्णपक्षस्य ॥२०८॥॥
दसम-चउत्थे य सरे, निदि(दि)? तह य कण्हपाडिवओ। धादवखरेसु सत्तसु, णवमादी [प० ११३, पा० १] सोलसी जाव ॥ २०९॥
दशमस्वर औकारः । चतुर्थः स्वर ईकारः । एतदधिके प्रश्ने कृष्णपक्षप्रतिपद् भवति । घकारबहुले नवमी । झकारबहुले दशमी। ढकारबहुले एकादशी ।धकाराधिके द्वादशी। भकाराधिके त्रयोदशी । वकाराधिके चतुर्दशी । हकाराधिके अमावास्या । एतास्तस्यैव कृष्णपक्षस्य ॥२०९।। 15
पंचमवग्गे पंचम-सरे [य] एकादसी तहा होइ ।
अणुणासिएसु दोसु वि, सेसा तिहिणो य चत्तारि ॥ २१० ॥ पंचमो द्विस्वभावः । अतः उभयपक्षस्यापि शुक्ल-कृष्णाख्यस्य ग्राहको भवतीति । पंचमधर्गप्रतिबद्ध उकारस्त[प० ११३,पा० २]बहुले प्रश्ने उभयपक्षस्यापि पंचमी। औकाराधिके षष्ठी । ङकाराधिके सप्तमी। अकाराधिके अष्टमी। णकाराधिके नवमी । नकाराधिके दशमी । । मकारबहुले एकादशी। अकारः सानुस्वारः, तदधिके प्रश्ने द्वादशी च त्रयोदशी। अकार: सविसर्गः, तद्वहुले प्रभे चतुर्दशी पंचदशी चेति । एतास्त्रिवर्गा द्विस्वभावत्ता(त्वा)दक्षराणां पक्षद्वयस्य विज्ञेयाः ॥ २१०॥
बितिया अणुणासाई, एवं तिहिणो कमेण चत्तारि । दिलृमि कण्हपक्खे, एवं तिहिणो य(प)विभागो य ॥ २११ ॥
उक्तार्थे वा अतिदेशार्थकारिका । पूर्वार्द्धदृष्टे च कृष्णपक्षे शुक्लपक्षे च । एवमुक्तन्यायेन तिथीनां प्रविभागः कर्त्तव्यः ॥ २११ ॥
संवत्स(च्छ)रंमि दिट्टे, बितिए वग्गंमि [५० ११४, पा० २] जाण हेमंत(त)। तइयंमि गिम्हकालं, चडले(चउत्थए) पाउसं जाण ॥ २१२ ॥
संवत्सराक्षरे प्रभाक्षराणामादौ दृष्टे द्वितीयवर्गाक्षरे च तस्यानन्तरं अग्रतो दृष्टे हेमंतकालो . द्रष्टव्यः । संवत्सराक्षराः-घ झ ढ धभव हाः, द्वितीयवर्णाक्षराश्च-ख छठ थ फरषाः । तस्य
(61)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org