________________
प्रश्नव्याकरणाख्यं जयपाहुडनाम निमित्तशास्त्रम् ।
॥ औं नमः सर्वज्ञाय ॥
करकमलकलितमौक्तिकफलमिव कालत्रयस्य विज्ञानम् ।
यो वेत्ति लीलयैव हि, तं सर्वज्ञं जिनं नमत ॥१॥ अन्थकृत्(ता?) प्रश्नाख्यस्य जयपाहुडस्य निमित्तशास्त्रस्यारम्भे अशेषदुरितप्रक्षयार्थ चाभिप्रेतार्थप्रसिद्ध्यर्थमिष्टदेवतानमस्कार(रः)कर्त्तव्यः । तदर्थमाह - .
सिद्धमरूयमणिदियमक्कि(क)यमणवन(ज)मच्चुयं वीरं ।
णमिऊण सयलतिहुयणमत्थयचूडामणी(णिं) सिरसा ॥१॥
वीरं शिरसा प्रणम्येति । किंविशिष्टमन्तमुच्यते-सिद्धं । तत्र शुभाशुभकर्मविमुक्तः ॥ [प०१, पा० २] सिद्धः । नास्य रूपं विद्यत इत्यरूपः । रूपं सु(शु)छ-कृष्णाद्यात्मकम् । श्रोत्रादीनीन्द्रियाणि शब्दाद्यर्थविषये न प्रवर्त्तत(न्ते) इत्यनीन्द्रियम्। न कृ(क्रि)यत इत्यकृतकः, द्रव्यरूपेण नित्यत्वात् । नावद्यमनवद्यः। अवयं पापम् , अपापं अगझे इत्यर्थः । न स्वभावात् प्रच्यवति इत्युच्य(त्यच्यु)तः । अशेषकर्मविदारणाद् वीरः । वीरो देवताविशेषः । तं शिरसा प्रणम्येति सम्बन्धोऽयम् । अथवा यं न(?) एव सिद्धः अत एवासावरूपी अनिन्द्रिय अकृतक अनवद्य ।। अच्युतः वीरः इति बभूय(व) स एव सकलत(त्रि)भुवनमस्तकचूडामणि[:] लोकाग्रे [प० २, पा. १] निवासित्वात् । अतस्तं देवताविशेष महावीराख्यं सि(शि)रसा प्रणम्य प्रश्नव्याकरणं शास्त्रं व्याख्यामीति वाक्यशेषाल्लभ्यमिति । आरादुपकारित्वात् ॥ १॥
सुयदेवयं पणमिमो, जस्स पसाएण गहियव(ध)रियस्स । सुत्तस्स अत्थपरिमियसपा(मा?)दरो तीरए काउं ॥ २ ॥
श्रुतं साम(शास्त्र) ज्ञानमित्यनर्थान्तरम् । तदेतत् श्रुतं देवता श्रुतदेवता। तां श्रुतदेवतां प्रणता(मा)मि । यस्याः प्रसादेन । प्रसाद इत्यनुग्रहोऽभिमुखपरितोष इत्युच्यते । गृहीतस्य ()तस्य च तस्य सूत्रस्यार्थः । सूत्रार्थः प्राप्त्यादरः शक्यते कर्तुमिति ॥ २॥
मइमाहाप० २, पा० २]प्पुप्पायं, भुवणभंतरपवंत(वत्त)वावारं ।
अइसयपुण्णं णाणं, पण्हं जयपायडं वोच्छं ॥ ३ ॥
मति(तिः) बुद्धि(द्धिः) प्रज्ञेति पर्यायाः । बुद्धिप्रभावोत्पत्तिभूतमित्यर्थः। कस्तस्या बुद्धे (ढेः) प्रभावः । नष्ट-मुष्टिचिन्ता-लाभालाभ-सुख-दुःख-जीवित-मरणाभिव्यञ्जकत्वम् । किश्च भुवनाभ्यन्तरप्रवृत्तव्यापारम् । व्यापारस्तद्गतपदार्थोपलम्भनम् । अतिस(श)यपूर्ण ज्ञानम् । यदन्यसा(शा)
(17)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org