SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मूलं - १३८ ३३३ स तथेति पूर्वानुपूर्वी, शेषभावना त्वत्र पूर्वोक्तानुसारेण सुकरैव । अथ कालविचाररस्य प्रस्तुतत्वात्समयादेश्च कालत्वेन प्रसिद्धत्वाद् अनुपङ्गतो विनेयानां समयादिकालपरिज्ञानदर्शनाच्च तद्विपयत्वेनैव प्रकारान्तरेण तामाह-- ' अहवे' त्यादि, तत्र समयो- वक्ष्यमाणस्वरूपः सर्वसूक्ष्मः कालांशः, स च सर्वप्रमाणानां प्रभवत्वात्, प्रथमं निर्दिष्ट: २, तैरसंख्येये निष्पन्ना आवलिका २, संख्येया आवलिकाः 'आण'त्ति आण: एक उच्च्छास इत्यर्थः ३, ता एव संख्येया नि:श्वासः, अयं च सूत्रे ऽनुक्तोऽपि दृष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति ४, द्वयोरपि कालः, 'पाणु'त्ति एक: प्राणुरित्यर्थ: ५, सप्तभि: प्राणुभिः स्तोक: ६, सप्तभि: स्तोकैर्लवः ७, सप्तसप्तत्या लवानां मुहूर्त: ८, त्रिंशता मुहूर्तेरहारात्रं ९, पञ्चदशभिः पक्षः १०, ताभ्यां द्वाभ्यां मास: ११, मासद्वयेन ऋतु: १२, ऋतुत्रयमानमयनम् १३, अयनद्वयेन संवत्सरः १४, पञ्चभिस्तैर्युगं १५. विंशत्वा युगैर्वर्पशतं १६, तैर्दशभिर्वर्षसहस्रं १७, तेषां शतेन वर्षशतसहस्र, लक्षमित्यर्थः १८, चतुरशीत्या च लक्षैः पूर्वाङ्गं भवति १९ तदपि चतुरशीत्या लक्षैर्गुणितं पूर्वं भवति २०, सप्ततिकोटिलक्षाणि षट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम्, उक्तं च तच्च "पुव्वस्स उ परिमाणं सयरी खलं हुंति कोडिलक्खाउ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥" स्थापना ७०५६००००००००००, इदमपि चतुरशीत्वा लक्षैर्गुणितं त्रुटित्राङ्गं भवति २१, एतदपि चतुरशीत्वा लक्षैर्गुणितं त्रुटितं भवति २२, तदपि चतुरशीत्वा लक्षैर्गुणैतमटटाङ्ग २३, एतदपि तेनैव गुणकारेण गुणितमटटम् २४, एवं सर्वत्र पूर्व: पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यं, ततश्च अवावङ्गं २५, अववं २६, हुहुकाङ्ग २७, हुहुकं २८, उत्पलाङ्ग २९, उत्पलं ३०, पद्माङ्गं ३१, पद्मं ३२, नलिनाङ्ग ३३, नलिनं ३४, अर्थनिपूरा ३५, अर्थनिपूर ३६, अयुताङ्गं ३७, अयुतं ३८, नयुताङ्गं ३९, नयुतं ४० प्रयुताङ्गं ४१, प्रयुतं ४२, चूलिवाङ्ग ४३, चूलिका ४४, शीर्ष प्रहेलिका ४५, एवमेते राशयश्चतुरशीतिलक्षस्वरूपेण गुणकारेण यथोत्तरं वृद्धा दृष्टव्यास्तावद् यावदिदमेव शीर्षप्रहेलिकाङ्गं चतुरशीत्वा लक्षैर्गुणितं शीर्षप्रहेलिका भवति ४६, अस्याः स्वरूपमङ्कतोऽपि दृर्श्यते ७५८२६३२५३०७३०१०२४११५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६ अग्रे च चत्वारिंशं शून्यशतं १४०, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि भवन्ति, अनेन चैतावता कालमानेन केषाञ्चिद् रत्नप्रभानारकाणां भवनपतिव्यन्तरसुराणां सुषमदुष्षमारकसम्भ-विनां नरतिरश्चां च यथासम्भवमायूंषि मीयन्ते, एतस्माच्च परतोऽपि संख्येयः कालोऽस्ति, किंत्वनतिशयिनामसंव्यवहार्यत्वात् सर्पपाद्युपमयाऽत्रैव वक्ष्यमाणत्वाच्च नेहोक्तः, किं तर्हि ?, उपमामात्रप्रतिपाद्यानि पल्योपमादीन्येव, तत्र पल्योपमसागरोपमे--अत्रैव वक्ष्यमाणस्वरूपे, दशसागरोपमकोटाकोटिमाना त्ववसर्पिणी, तावन्मानैवोत्सर्पिणी, अनन्ता उत्सर्पिण्यवसर्पिण्यः पुद्गलपरावर्तः, अनन्तास्ते अतीताद्धा, तावन्मानैवानागताद्धा, अतीतानागतवर्तमानकालस्वरूपा सर्वाद्धेत्येषा पूर्वानुपूर्वी, शेषभावना तु पूर्वोक्तानुसारतः सुकरैव, यावत् कालानुपूर्वी समाप्ता ॥ साम्प्रतं प्रागुद्दिष्टमेवोत्कीर्तनानुपूर्वी बिभणिषुराह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy