________________
अनुयोगद्वार-चूलिकासूत्रं मात्रनिबन्धनं द्रव्यबाहुल्यमप्यसौ वदतीत्यदोषः, शेषभावना पूर्ववदिति। द्रव्यप्रमाणद्वारे यदुक्तं 'नियमा एगो रासित्ति, अत्राह-नन् यदि संख्येयादिस्वरूपाणि एतानि न भवन्ति तर्येको राशिरित्यपि नोपपद्यते, द्रव्यबाहुल्ये सति तस्योपपद्यमानत्वाद्, व्रीह्यादिराशिषु तथैव दर्शनात्, सत्यं, किन्त्वेको राशिरिति वदतः कोऽभिप्राय:?, बहूनामपि तेषामानुपूर्वीत्वसामान्येनैकेन क्रोडीकृतत्वादेकत्वमेव, किं च-यथा विशिष्टैकपरिणामपरिणते स्कन्धे तदारम्भकावयवानां बाहुल्येऽप्येकतैव मुख्या, तद्वदत्राऽऽनुपूर्वीद्रव्यबाहुल्येऽपि तत्सामान्यस्यैकरूपत्वादेकत्वमेव मुख्यमसौ नयः प्रतिपपद्ये, तद्वशेनैव तेषामानुपूर्वीत्वसिद्धेः, अन्यथा तदभावप्रसङ्गात्, तस्मान्मुख्यस्यैकत्वस्यानेन कक्षीकृतत्वात् संख्येयरूपातादिनिषेधो गुणभूतानि(तु) द्रव्याण्याश्रित्य राशिभावोऽपि न विरुध्यते, एव मन्यत्रापि भावनीयमित्यलं प्रपञ्चेन।
क्षेत्रद्वारे नियमा सव्वलोए होञ्ज'त्ति आनुपूर्वीसामान्यस्यैकत्वात् सर्वलोकव्यापित्वाच्चेति भावनीयम्, एवमितरद्वयेऽप्यभ्यूह्यमिति । स्पर्शनाद्वारमप्येवमेव चिन्तनीयमिति।
कालद्वारेऽपि तत्सामान्यस्य सर्वदाऽव्यवच्छिनत्वात्, त्रयाणामपि सर्वाद्धाऽवस्थानं भावनीयमिति, अत एवान्तरद्वारे नास्त्यन्तरमित्युक्तं, तद्भावव्यवच्छेदस्य कदाचिदप्यभावादिति । भागद्वारे 'नियमा तिभागे होञ्ज'त्ति त्रयाणां राशीनामेको राशिस्त्रिभाग एव वर्तत इति भावः, यत्तु राशिगतद्रव्याणां पूर्वोक्तमल्पबहुत्वं तदत्र न गण्यते, द्रव्याणां प्रस्तुतनयमाते व्यवहारसंवृत्तिमात्रेणैव सत्त्वादिति। __भावद्वारे 'सादिपारिणामिए भावे होञ्ज'त्ति यथा आनुपूर्व्याअदिद्रव्याणामेतद्भाववर्तित्वं पूर्व भावितं तथाऽत्रापि भावनीयं, तेषां यथास्वं सामान्यदव्यतिरिक्तत्वादिति । अल्पबहुत्वद्वारासम्भवस्तूक्त एव, इति समर्थितोऽनुगम, तत्समर्थने च समर्थिता संग्रहमतेनानौपनिधिको द्रव्यानुपूर्वी, तत्समर्थने च व्याख्याता सर्वथाऽपीयम्, अतः ‘से त'मित्यादि निगमनत्रयम् ।
गताऽनौपनिधिकीद्रव्यानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेवोपनिधिकी तां व्याचिख्यासुराह
मू.(१०९) से किं तं उवनिहिया दव्वानुपुव्वी?, २तिविहा पन्नत्ता, तंजहा-पुब्वानुपुवी पच्छानुपुव्वी अनानुपुब्बी य।
वृ.अथ केयं प्रागनिर्णीतशब्दार्थमात्रा औपनिधिकी द्रव्यानुपूर्वीति प्रश्नः, अत्र निर्वचनम्औपनिधिको द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वीत्यादि, उपनिधिनिक्षेपो विरचनं प्रयोजनमस्या इत्यौपनिधिको द्रव्याविषयाऽऽनुपूर्वी-पारिपाटिर्द्रव्यानुपूर्वी, सा त्रिप्रकारा, तत्र विवक्षितधर्मास्तिकायादिद्रव्यविशेषसमुदाये यः पूर्वः-प्रथमस्तस्मादारभ्यानुपूर्वी-अनुक्रमः परिपाटिः निक्षिप्यते विरच्यते यस्यां सा पूर्वानुपूर्वी, तत्रैव यः पाश्चात्यः-चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी-परिपाटि: विरच्यते यस्यां सा निरुक्तविधिना पश्चानुपूर्वी, न आनुपूर्वी अनानुपूर्वी, यथोक्तप्रकारद्धयातिरिक्तस्वरूपेत्यर्थः । तत्राद्यभेदं तावत्रिरूपयितुं प्रश्नमाह
मू.(११०) से किंतंपुव्वानुपुवी?, २ धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए, से तं पुवानुपुची।।
से किं तं पच्छानुपुब्बी ?, २ अद्धासमए पोग्गलत्थिकाए जीवत्थिकाए आगासत्यिकाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org