SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ३०२ अनुयोगद्वार-चूलिकासूत्र 'भवन्ति' आनुपूर्वीत्त्वपर्यायेणावतिष्ठन्ते?, अत्रोत्तरम्-‘एगंदव्व'मित्यादि, इयमत्र भावनापरमाणुद्वयादेरपरैकादिपरमाणुमोलनेऽपूर्व किञ्चिदानुपूर्वीद्रव्यं समुत्पन्न, ततः समयादूर्ध्वं पुनरप्येकाद्यणौ वियुक्तेऽपगतस्तद्भाव इत्येकमानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः, यदा तु तदेवासङ्घयानं कालं तद्भावेन स्थित्वाऽनन्तरोक्तस्वरूपेण वियुज्यते तदा उत्कृष्टतोसङ्ख्येयोऽवस्थितिकालः, प्राप्यते, अनन्तं कालं पुनधितिष्ठत्ते, उत्कृष्टाया अपि पुद्गलसंयोगस्थितेरसङ्घयेयकालत्वादिति। ___ 'नानाद्रव्याणि' बहूनि पुनरानुपूर्वीद्रव्याण्यधिकृत्य सर्वाद्धा स्थितिर्भवति, नास्ति स कश्चित् कालो यत्रानुपूर्वीद्रव्यविरहितोऽयं लोक: स्यादिति भावः अनानुपूर्वीअवक्तव्यकद्रव्येष्वपि जघन्यादिभेदभिन्न एतावानेवावस्थितिकालः, तथाहि-कश्चित् परमाणुरेकं समयमेकाकीभूत्वा ततः परमाण्वादिना अन्येन सह संयुज्यते, इत्थमेकमनानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकालः यदा तु स एवाससङ्ख्यातं कालं तद्भावेन स्थित्वा अन्येन परमाग्वादिना सह संयुज्यते तदोत्कृष्टतोऽसङ्खयेयोऽवस्थितिकालः संप्राप्यते, नानाद्रव्यपक्षस्तु पूर्ववदेव भावनीयः। अवक्तव्यकद्रव्यमपि परमाणुद्वयलक्षणं यदा समयमेकं संयुक्तं स्थित्वा ततो वियुज्यते तदव-स्थमेव वाऽन्येन परमाण्वादिना संयुज्यते तदा तस्यावक्तव्यकद्रव्यतया जघन्यतः समयोऽव-स्थानं लभ्यते, यदा तु तदेवासङ्ख्यातं कालं तद्भावेन स्थित्वा विघटते तदवस्थमेवो वाऽन्येन परमाण्वादिना संयुज्यते तदोत्कृष्टतः, अवक्तव्यकद्रव्यतथाऽसङ्ख्यातं कालमवस्थानं प्राप्यते, नानाद्रव्यपक्षस्तु तथैव भावनीय इति । उक्तं कालद्वारम्, अथान्तरद्वारं प्रतिपिपादयिषुराह मू.(९७) नेगमववहाराणं आनुपुच्चीदव्वाणं अंतरंकालओ केवच्चिरं होइ?, एगंदवं पडुच्च जहत्रेणं एग समयं उक्कोसेणं अनंतं कालं, नाणादब्वाइं पडुच्च नत्थि अंतरं। नेगमववहाराणं अनानुपुव्वीदव्वाणं अंतरं कालओ केवच्चिरं होइ?, एगं दव्वं पडुच्च जहनेणं एग समयं उक्कोसेणं असंखेज कालं, नानादब्वाइं पडुच्च नत्थि अंतरं। नेगमववहाराणं अवतव्वदव्वाणं अंतरंकालओ केवच्चिर होइ?, एगदव्वं पडुच्च जहनेणं एगं समयं उक्कोसेणं अनंत कालं, नानादव्वाइं पडुच्च नत्थि अंतरं । वृ. नैगमव्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालतः कियच्चिरं भवतीति प्रश्नः, अन्तरं' व्यवधानं, तच्च श्रेत्रतोऽपि भवति यथा भूतलसूर्ययोरष्टौ योजनशतान्यन्तरमित्यस्तव्यवच्छेदार्थमुक्तम्, 'कालतः कालमाश्रित्य, तदयमत्रार्थ:-आनुपूर्वीद्रव्याण्यानुपूर्वीस्वरूपतां परित्यज्य कियता कालेन तान्येव पुनस्तथा भवन्ति, आनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे कियान् कालो भवतीत्यर्थः । ___ अत्र निर्वचनम्-‘एगं दब'मित्यादि, इयमत्र भावना-इह विवक्षितं त्र्यणुकस्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात् प्रयोगपरिणामाद्वा खण्डशो वियुज्य परित्यक्तानुपूर्वी भावं सञ्जातम्, एकस्माच्च समयादूर्ध्वं विश्रसादिपरिणामात् पुनस्तैरेव परमाणुभिस्तथैव तन्निष्यन्त्रमित्येवं जघन्यतः सर्वस्तोकतया एकं द्रव्यमाश्रित्वाऽऽनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy