________________
मूलं - ९५
३०१
नेगमववहाराणं अनुपुव्वदव्वाइं लोअस्स किं संखेज्जइ भागं फुसंति जाव सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च संखिज्जइभागं फुसंति असंखिज्जइभागं फुसंति नो संखिज्जे भागे फुसंति नो असंखिज्जे भागे फुसंति, नानादव्वाइं पडुच्च नियमा सव्वलोअं फुसंति, एवं अवत्तव्वगदव्वाइं भाणिअव्वाई,
वृ. भावना क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्रस्पर्शनयोरयं विशेष:- क्षेत्रम् - अवगाहाक्रान्तप्रदेशमात्रं, स्पर्शना तु षदिक्कै : प्रदेशैस्तद्बहिरपि भवति, तथा च परमाणुद्रव्यमाश्रित्य तावदगाहनास्पर्शनयोरन्यत्रोक्तो भेद:- 'एगपएसोगाढं सत्तपएसा य से फसुण 'त्ति, अस्यार्थःपरमाणुद्रव्यमवगाढं तावदेकस्मिन्नेवाकाशप्रदेशे, स्पर्शना तु 'से' तस्य सप्त प्रदेशा भवन्ति, षड्दिग्व्यवस्थितान् पट् प्रदेशान् यत्र चावगाहस्तं स्पृशतीत्यर्थः एवमन्यत्रापि क्षेत्रस्पर्शनयोर्भेदो भावनीयः ।
-
-
अत्र सौगताः प्रेरयन्ति- यदि परमाणोः षदिक्स्पर्शनाऽभ्युपगम्यते तह्येकत्वमस्य हीयते, तथाहि - प्रष्टव्यमत्र, किं येनैवे स्परूपेणासौ पूर्वाद्यन्यतरदिशा सम्बद्धस्तेनैवान्यदिग्भिरुत स्वरूपान्तरेण ?, यदि तेनैव तदा अयं पूर्वदिकसम्बन्धोऽयं चापरदिक्सम्बन्ध इत्यादिविभागो न स्याद्, एकस्वरूपत्वात्, विभागभावे च षदिक्सम्बन्धवचनमुपप्लवत एव, अथापरो विकल्पः, कल्प्यते तर्हि तस्य षट्स्वरूपापत्त्वा एकत्वं विशीर्यते, उक्तं च- "दिग्भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यत" इति, अत्र प्रतिविधीयते, इह परमाणुद्रव्यमादिमध्यान्त्यादिविभागरहितं निरशमेकस्वरूपमिष्यते, अतः सांशवस्तुसम्भवित्वात् परोक्तं विकल्पद्वयं निरास्पदमेव, अथानभ्युपगम्यमानाऽपि परमाणोः सांशताऽनन्तरोक्तविकल्प्बलेनापाद्यते, ननु भवन्तोऽपि तर्हि प्रष्टव्याः कचिद् विज्ञानसन्ताने विवक्षितः कश्चिद्विज्ञानलक्षणक्षण: स्वजनकपूर्व क्षणस्य कार्यं स्वजन्योत्तरक्षणस्य कारणमित्यत्र सौगतानां तावदविप्रतिपत्तिः,
तत्रेहापि (तत्रापि) विचार्यते--किमसौ येन स्वरूपेण पूर्वक्षणस्य कार्य तेनैवोत्तरक्षणस्य कारणभुत स्वरूपन्तरेण ?, यद्याद्यः पक्षस्तर्हि यथा पूर्वापेक्षयाऽसौ कार्य तथोत्तरापेक्षयापि स्याद्, यथा वा उत्तरापेक्षया कारणं तथा पूर्वापेक्षयाऽपि स्याद्, एकस्वरूपत्वात्, तस्येति, अथ द्वितीयः पक्षस्तर्हि तस्य सांशत्वप्रसङ्गोऽत्रापि दुर्वारः स्याद्, अथ निरंश एवासौ ज्ञानलक्षणक्षणोऽकार्याकारणरूपः तत्तद्वस्तुव्यापृतत्वात् तथा तथा व्यपदिश्यते, न पुनस्तस्यानेकस्वरूपत्वमस्ति, नन्वस्माकमपि नेदमुत्तरमतिदुर्लभं स्यात्, यतो द्रव्यतया निरंश एव परमाणुस्तथाविधाचिन्त्यपरिणामत्वात्, दिष्ट्केन सह नैरन्तर्येणावस्थितवात् तस्य स्पर्शक उच्यते, न पुनस्तत्रांशै: काचित् समस्तीनि, अत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरेषु चर्चितत्वादित्यलं विस्तरेण ।
Jain Education International
उक्तं स्पर्शनाद्वारम् इदानीं कालद्वारं बिभाणिषुराह
मू. (९६ नेगमववहाराणं आनुपुव्वीदव्वाइं कालओ केवच्चिरं होइ ?, एवं दव्वं पडुच्च जहन्त्रेणं एवं समयं उक्कोसेणं असंखेज्ज कालं, नानादव्वाइं पडुच्च नियमा सव्वद्धा, अनानुपुव्वीदव्वाइं अवत्तव्वगदव्वाइं च एवं चेव भाणि अव्वाइं ।
वृ. नैगमव्यवहारयोरानुपूर्वीद्रव्याणि 'कालतः ' कालमाश्रित्य 'कियच्चिरं' कियन्तं कालं
For Private & Personal Use Only
www.jainelibrary.org