________________
२७८
अनुयोगद्वार-चूलिकासूत्रं यल्लालाजालमभिमुञ्चन्ति तत् कृमिरागं पट्टसूत्रमुच्यते, तच्च रक्तवर्णकृमिसमुत्थत्वात् स्वपरिणामत एव रक्तं भवति । अन्ये त्वभिदधति-यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्ठिसंपरित्यज्य रसो गृह्यते, तत्रच कश्चिद्योगः प्रक्षिप्यते, ततस्तेन यद्रज्यते पट्टसूत्रं तत् कृमिरागमुच्यते, तच्च धौताद्यवस्थासु मनागपि कथञ्चिद्रागंन मञ्चन्ति, 'से त'मित्यादि निमगनम्।
अथ चतुर्थो भेद उच्यते-'से किं त"मित्यादि, अत्रोत्तरम्-'वालयं पंचविह'मित्यादि, वालेभ्यः-ऊरणिकादिलोमभ्यो जातं वालजं, तत् पञ्चविध प्रज्ञप्तं, तद्यथा-ऊर्णाया इदमौणिकम्, उष्ट्राणामिदमौष्टिकम्, एते द्वे अपि प्रतीते, ये मृगेभ्यो हुस्वका मृगाकृतयो बृहत्पुच्छा आटविकजीवविशेषास्तल्लोमनिप्पत्रं मृगलोमिकृम्, उन्दुररोमनिष्पन्नं कौतवं, ऊर्णादीनां यदुद्धरितं किट्टिसं तनिष्प सूत्रमपि किट्टिसम्, अथवा एतेषामेवोर्णदीनां द्विकादिसंयोगतो निष्पन्नं सूत्रं किट्टिस, अथवा उक्तशेषाश्लादिलोमनिष्पन्न किट्टिसं 'से त'मित्यादि निगमन्।
अथ पञ्चमो भेदोऽभिधीयते-'से त'मित्यादि, वल्काञ्जातं वल्कजं, तच्च सणप्रभृति, क्वचित् पुनरतस्यादीति पाठः, तत्रातसीसूत्रं मालवादिदेशप्रसिद्ध, ‘से त'मित्यादि निगमन् ।
उक्तं पञ्चविधमण्डजादिसूत्र, तद्भणने चोक्तं ज्ञशरीरभव्यशरीव्यतिरिक्तं द्रव्य श्रुतम अतस्तदपिनिगमयति-'सेतं जाणगे'त्यादि, एतद्भणने च समर्थितं नोआगमतो द्रव्यश्रुतमतस्तंदपि निगमयति 'सेतं नोआगमओ' इत्यादि, एतत्समर्थने च समर्थितं द्विविधमपि द्रव्यश्रुततस्तदपि निगमयति-'से तं दव्वसुअ'मित्यादि । अथ भावश्रुतनिरूपणार्थमाह
मू.(४२) से किं तं भावसुअं?, २ दुविहं पत्रतं, तंजहा-आगमतो अ नोआगमतो ।
वृ. अत्रोत्तरम्-'भावसुअं दुविह'मित्यादि, विवक्षितपरिणामस्य भवनं भावः स चासौ श्रुतं चेति भाव श्रुतं भावप्रधान वा श्रुतं भाव श्रुतं, तद् द्विविधं प्रज्ञप्तम्-आगमतो नोआगमतश्च । तत्राऽऽद्यभेदनिरूपणार्थमाह
मू.(४३) से किं तं आगमतो भावसुअं?, जानए उवउत्ते, से तं आगमतो भावसु।
वृ. अत्रोत्तरं-श्रुतपदार्थज्ञस्तत्र चोपयुक्त आगमत:-आगममाश्रित्य भाव श्रुतं, श्रुतोपयोगपरिणामस्य सद्भावत् तस्य चाऽऽगमत्वादिति भावः, 'से त'मित्यादि निगमनम्। अथ द्वितीयभेद उच्यते
मू.(४४) से किं तं नोआगमतो भावसुअं? २ दुविहं पत्रत्तं, तंजहा-लोइअंलोगुत्तरिअंच।
वृ.अत्रोत्तरम्-'नोआगमओ भावसुअंदुविहं पन्नत्तं, लोइयं लोउत्तरिअ'मित्यादि।अाऽऽयभेदनिरूपणार्थमाह
मू.(४५)से किं तं लोइअंनोआगमतो भावसुअं?, २ जंइमं अन्नाणिएहि मिच्छदिट्ठीहिं सच्छंदबुद्धिमइविगप्पियं, तंजहा- भारहं रामायणं भीमासुरुक्खं कोडिल्लयं घोडयमुहंसगडभद्दिआउ कप्पासिअंनागसुहमंकणगसत्तरी वेसियं वइसेसियं बुद्धसासणं काविलं लोगायतं सडियंत माढरपुराणवागरणनाडगाइ, अहवा बावत्तरिकलाओ चत्तारि वेआ संगोवंगा, से तं लोइयं नोआगमतो भावसु
वृ.अत्र निर्वचनम्-'लोइयं नोआगमतो भावसुअंजंइम'मित्यादि, लोकैः, प्रणोतं लौकिकं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org