________________
मूलं-४१
२७७ पुनस्तदित्याह- पत्तयपोत्थयलिहिय'ति पत्रकाणि-तलताल्यादिसंबन्धीनि तत्संघातनिष्पन्नास्तु पुस्तकाः, ततश्च पत्रकाणि च पुस्तकाश्च तेषु लिखितं पत्रकपुस्तकलिखितम, अथवा पोत्थयं ति पोतं-वस्त्र पत्रकाणि च पोतं च तेषु लिखितं पत्रकपोतलिखितं ज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्यश्रुतम्, अत्र च पत्रकादिलिखितम्य श्रुतस्य भावश्रुतकारणत्वात् द्रव्यत्वमवसेयं, नोआगमत्वं तु आगमतो द्रव्यश्रुत इव आगमकारणस्यात्मदेहशब्दत्रयरूपस्याभावाद् भावनीयम्।
तदेवमेकेन प्रकारेण ज्ञशरीरभव्यशरीव्यतिरिक्तं द्रव्यश्रुतमुक्तं, साम्प्रतं तदेव प्रकारान्तरेण निरूपयितुमाह- अहवे'त्यादि, अथवा श्रुतं पञ्चविधं प्रज्ञप्तं, तद्यथा-'अंडय'मित्यादि, अत्राऽऽहननु श्रुते प्रकान्ते सूत्रस्य प्ररूपणमप्रस्तुतं, सत्यं, किन्तु प्राकृतशैलीमङ्गीकृत्य श्रुतस्याण्डजादिसूत्रस्य च सूत्रलक्षणेनैकेन शब्देनाभिधीयमानत्वसाम्यादिदमपि प्ररूपयतीत्यदोषः, प्रसङ्गतोऽण्डजादिसूत्रस्वरूपज्ञापनेन शिष्यव्युत्पत्तिश्चैवं कृता भवति, अत एवा भाव श्रुते प्रक्रान्ते नामश्रुतादिप्ररूपणमप्रस्तुतमित्याद्यपि प्रर्यमपास्तं, तस्यापि शिष्यव्युत्पादनादिफलत्वात्, न 'च भावश्रुतप्रतिपक्षस्य नामश्रुतादेः प्ररूपणमन्तरेण भाव श्रुतस्य निर्दोषत्वादिस्वरूपनिश्चयः कर्तुं पार्यते, 'जे सव्वं जाणइ से एगं जाणइति वचनादित्यलं विस्तरेण ! __ अत्राऽऽद्यभेदज्ञापनार्थमाह-'से किंत'मित्यादि, अनोत्तरम्-'अंडयं हंसगन्भाइ'त्ति अण्डाजानमण्ड हंस:-पतङ्गश्चतुरिन्द्रियो जीवविशेषः, गर्भस्तु तन्निर्वर्तित: कोसिकाकारो, हंसस्य गर्भो हंसगर्भः, तदुत्पन्नं सुत्रमण्डजमच्यते, आदिशब्दः स्वभेदप्रख्यापनपरः। ननु यदिहंसग - त्पत्रसूत्रमण्डजमुच्यते तर्हि सूत्रे 'अंडयं हंसगब्भाइ'त्ति सामानाधिकरण्यं विरुध्यते, हंसगर्भस्य प्रस्तुतसूत्रकारणत्वादेव, सत्यं, कारणे कार्योपचारात् तदविरोधः, कोशकाभवं सूत्रं चटकसूत्रमिति लोके प्रतीतमण्डजमुच्यत इति हृदयं, पञ्चेन्द्रियहंसगर्भसम्भवमित्यन्ये, सेत'मित्यादि निगमन् । अथ द्वितीयभेद उच्यते___ ‘से किं त'मित्यादि, अत्र निर्वचनम्- 'बोंडयं फलिहमाइ'त्ति बोंडं वमनीफलं तस्माञ्जातं बोण्डजं फलिहवमनी तस्याः फलमपि फलिहं कर्पासाश्रयं कोशकरूपं, तदिहापि कारणे कार्योपचारद्वोण्डजं सूत्रमुच्यते इति भावः, 'सेत'मित्यादि निगमनम्।
अथ तृतीयभेद उच्यते-'से किंत'मित्यादि, अत्रोत्तरम्-'कीडयं पंचविह'मित्यादि, कीटाञ्जातं कीटजंसूत्रं तत् पञ्चविधं प्रज्ञप्तं, तद्यथा-'पट्टे'त्ति पट्ठसूत्रं मलयम् 'अंशुकं' चीनांशुकं कृमिरागम्, अत्र वृद्धव्याख्या-किल यर्तचर विषये पट्टसूत्रमुत्पद्यते तत्रारण्ये वननिकुञ्जस्थाने मांसचीडादिरूपस्याऽऽमिषस्य पुजाः क्रियन्ते, तेषां च पुञ्जानां पार्श्वतो निम्ना उन्नताश्च सान्तरा बहवः कीलका भूमौ निखायन्ते, तत्र वनान्तरेषु संचरन्तः पतङ्गकोटाः समागत्य मांसाद्यामिषोपभोगलुब्धाः कोलकान्तरेष्वितस्ततः परिभ्रमन्तो लालाः प्रमुञ्चन्ति, ताश्च कीलकेषुलग्नाः परिगृह्यन्ते, इत्येतत् पट्टसूत्रमभिधीयते, अनेनैवक्रमेण मलयविषयोत्पन्नं तदेव मलयम्, इत्थमेव चीनविषये बहिस्तादुत्पन्नं तदेवांशुकं, इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमभिधीयते, क्षेत्रविशेषाद्धि कीटविशेषस्तद्विशेषात्तु पट्टसूत्रादिव्यपदेश इति भावः।
एवं क्वचिद्विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन युक्तं भाजनसम्पुटे स्थाप्यते, तत्र च प्रभूताः, कृमयः समुत्पद्यन्ते, तेच वाताभिलाषिणो भाजनच्छिट्टैनिर्गत्य आसत्र पर्यटन्तो
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only