________________
४७६
अनुयोगद्वार-चूलिकासूत्रं व्योऽहिविषकण्टकादिरुपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनचारित्रादि: अग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयस्तु स्वर्गविभूत्यादिः, एवंभूतेऽर्थे ज्ञात एव तत्प्राप्तिपरिहारोपेक्षार्थिना यतितव्यं, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इति, 'इति' एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः स किमित्याह-'नय' इति प्रस्तावाज्ज्ञाननयो 'नामेत्ति शिष्यामन्त्रणे इत्यक्षरघटना।
भावार्थस्त्वयम्-इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थ प्रतिपादयति-नन्वैहिकामुष्मिकफलार्थिना तावत्सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथाप्रवृत्तौ फलविसंवाददर्शनाद्, आगमेऽपि च प्रोक्तम्-‘पढमं नाणं तओ दए'त्यादि, 'जं अत्राणी कम्मं खवेई त्यादि, तथा अपरमप्युक्तम्
"पावाओ विनियत्ती पवत्तणा तह य कुसलपक्रोमि ।
विनयस्स य पडिवत्ती तिन्निवि नाणे समप्पंति ।।" तथा अन्यैरप्युक्तम्
"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मंता।
मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनाद् ।।" इति, इतश्च ज्ञानस्यैव प्राधान्यं, यतस्तीर्थंकरगणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्धः, तथा च तद्वचनम्
"गीयत्थो य विहारो बीओ गीयत्थमीसिओ भणिओ।
इत्तो तइयविहारो नानुन्नाओ जिनवरेहिं ।।" न यस्मादन्धेनान्धः समा कृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इति भावः, एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्ति: संजायते यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानंनोत्पन्नं, तस्माज्ञानमेव पुरुषार्थसिद्धेनिंबन्धनं, प्रयोगश्चात्र-यद्येन विना न भवति तत्तनिबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्करो, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति, ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्वसामायिकश्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात, देशविरतिसर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति गाथार्थः॥
विचारितं ज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन तद्विचार्यतेतत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेव गाथामाह'नायम्मी'त्यादि, इयं च क्रियानयमतेनेत्थं व्याख्यायते-इह ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवार्थे सर्वामष पुरुषार्थसिद्धिमभिलषता यतितव्यमेव-प्रवृत्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकारः स्वस्थान एव योज्यते, एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यतः सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानयः, शेषं पूर्ववद् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org