________________
मूलं-३४७
४७५ भेदकस्तहिं सर्वं विश्वमेकं स्यात्, ततश्च सहोत्पत्त्यादिप्रसङ्गः, तस्मात्कार्यभेदाद्विरुद्धधर्माध्यासाच्च समुदायसमुदायिनोर्भेदः प्रतिपत्तव्यः, एवं सङ्ख्यासंज्ञादिभ्योऽपि तद्भेदो भावनीयः, तस्मात्कश्चित्क्वचित्सूत्रविषयः समस्ताध्ययनविषयश्च नयविचारो न दुष्यति, भवत्वेवं तथाऽप्यध्ययनं नयैर्विचार्यमाणं किं सर्वैरेव विचार्यते ? आहोस्विद कियद्भिरेव ?, यदि सर्वैरिति पक्ष: स न युक्तः, तेपामसङ्ख्येयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, तथाहि-यावन्तो वचनमार्गास्तावन्त एव नयाः, यथोक्तम्
"जावइया वयणपहा तावइया चेव होंति नयवाया।
जावइवा नयवाया तावइया चेव परसमया।" न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति, प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणां, नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात्, सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि कि नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्यामः, अथापि स्यादसंख्येयत्वेऽप्येषां सकलनयसमाहिभिर्नयैर्विचारो विधीयते, ननु तेषामपि सनाहिनयानामनेकविधत्वात् पुनरनवस्थैव, तथाहि-पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतान्युक्तानि, यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद, उक्तं च__"एकेक्को य सयविहो सत्त नयसया हवंति एमेवे'त्यादि, सप्तानां च नयशतानां सङ्ग्राहकाः पुनरपि विध्यादयो द्वादश नया: यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमस्ति, एतत्सङ्ग्राहिणोऽपि सप्त नैगमादिनयाः तत्सङ्ग्राहिणौ पुनरपि द्रव्यपर्यायास्तिकौ नयौ ज्ञानक्रियानयौ वा निश्चयव्यवहारौ वा शब्दार्थनयौ वेत्यादि, इति सङ्ग्राहकनयानामप्यनेकविधत्वात्सैवानवस्था, अहो अतिनिपुणमुक्तं, किन्तु प्रक्रान्ताध्ययने सामायिकं विचार्यते, तच्च मुक्तिफलं, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयं, तच्च ज्ञानक्रियात्मकमेव, ततो ज्ञानक्रियानयाभ्यामेवास्य विचारो युक्ततरो नान्यैः ।
तत्र ज्ञाननयो ज्ञानमेव मुक्तिप्रापकतया प्रतिजानीते, ततस्तन्मताविषकरणार्थमाहमू. (३४८) नायमि गिहिअव्वमि चेव अत्थंमि।
जइअव्वमेव इइ जो उवएसो सो नओ नाम।। मू. (३४९) सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामित्ता।
तं सवनयविसुद्धं जं चरणगुणढिओ साहू॥ मू. (३५०) से तं नए। सोलस सयाणि चउरुत्तराणि होति उइमंमि गाहाणं।
दुसहस्समनुभछंदवित्तप्पमानओ भनिओ ।। नयरमहादारा इव उवक्कमदारानुओगवरदारा।
अक्खरबिंदुगमत्ता लिहिया दुक्खक्खयट्ठाए।। वृ.'ज्ञाते'सम्यग् अवगते 'गिहियव्वे' ग्रहीतव्ये उपादेय इत्यर्थः, अग्रहीतव्ये' अनुपादेये, सच हेय उपेक्षणीयश्च, द्वयोरप्यग्रहणाविशेषात्, चशब्द उक्तसमुच्चये, अथवा अग्रहीतव्यशब्देन हेय एवैको गृह्यते, उपेक्षणीयंत्वनुक्तमप्ययमेव चकारः समुच्चिनोति, एवो गाथालङ्कारमात्रे, 'अत्थंमि'त्ति 'अर्थे' एहिकामुष्मिके, तत्र एहिको ग्रहीतव्य स्रक्चन्दनाङ्गनादिः अग्रहीत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org