________________
मूलं-१५
२६३ नुपयोक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति 'पुहुत्तं नेच्छइत्ति अतीतानागतभेदतः परकीयभेदतश्च 'पृथकत्वं' पार्थक्यं नेच्छत्यसौ, कि तर्हि ?, वर्तमानकालीनं स्वगतमेव चाभ्युपैति, तच्चैकमेवेति भावः, "तिण्हं सद्दनयाण'मित्यादि, शब्दप्रधाना नयाः शब्दनया:शब्दसमभिरूद्वैवंभूताः, ते हिशब्दमेवप्रधानमिच्छन्तीति, अर्थं तु गौणं, शब्दवशेनैवार्थप्रतीतेः, तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चानुपयुक्त इत्येतदवस्तु, न सम्भवतीत्यर्थः, 'कम्हे'ति कस्मादेवमुच्यते इत्याह
'जई'त्यादि, यदि ज्ञायकस्तानुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वाद्, इदमत्र हृदयम्आवश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग्निर्णीतम्, एतच्चामी न प्रतिपद्यन्ते, यतो यद्यावश्यकशास्त्रं जानाति कथमनुपयुक्तः?, अनुपयुक्तश्चेत् कथं जानाति?, ज्ञानस्योपयोगरूपत्वात्, यदप्यागमकारणत्वादात्मदेहादिकमागत्वेनोक्तं तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यवस्त्वभ्युपगमपरत्वात्, तस्मादेतन्मते द्रव्यावश्यकस्यासंभव इति, निगमयन्नाह-'सेत'मित्यादि, तदेतदागमतो द्रव्यावश्यकम्।
उक्तं सप्रचञ्चमागमतो द्रव्यावश्यकमिदानी नोआगमतस्तदुच्यते
म.(१६) से किं तं नोआगमओ दवावस्सयं, २ तिविहं पत्रत्तं, तंजहा-जाणयसरीरदव्वावस्सयं भविअसरीरदब्वावस्सयं जाणयसरीरभविअसरीरवतिरित्तं दव्वावस्सयं।
वृ.अथकिं तन्नोआगमतो द्रव्यावश्यकमिति प्रश्नः, उत्तरमाह-'नोआगमओ दव्वावस्सयं तिविहं पन्नत्त' मित्यादि, नोआगमत इत्यत्र नोशब्द आगमस्य सर्वनिषेध देशनिषेधे वा वर्तते, यत उक्तं पूर्वमुनिभिः
“आगमसव्वनिसेहे नोसद्दो अहव देसपडिसेहे।
सव्वे जह नसरीरं भवस्स य आगमाभावा ।" व्याख्या-आगमस्य-आवश्यकादिज्ञानस्य सर्वनिषधे वर्तते नोशब्दः, अथवा तस्यैव देशप्रतिषेधे वर्त्तते, तत्र 'सव्वे'त्ति सर्वनिषेधे उदाहरणमुच्यते, यथेत्युपप्रदर्शने,'णसरीरं'ति ज्ञानस्यजानतः शरीरं ज्ञशरीरं नोआगमत इह द्रव्यावश्यकं, 'भव्यस्स च' योग्यस्य यच्छरीरं तदपि नोआगमत इह द्रव्यावश्यकं, कुत इत्याह-आगमस्य-आवश्यकादिज्ञानलक्षणस्य सर्वथाऽभावाद, इदमुक्तं भवति-ज्ञशरीरं भव्यशरीरं चानन्तरमेव वक्ष्यमाणस्वरूपं नोआगमतः सर्वथा आगमाभावमाश्रित्य द्रव्यावश्यकमुच्यते, नोशब्दस्यात्र पक्षे सर्वनिषेधवचनत्वादिति गाथार्थः ।। देशप्रतिषेधवचनेऽपि नोशब्दे उदाहरणं यथा
"किरियागमुच्चरंतो आवासं कुणइ भावसुनो उ।
किरियाऽऽगमो न होइ तस्स निसेहो भवे देसे॥" व्याख्या-क्रियाम्-आवर्तादिकां कुर्वन्नित्यध्याहारः, आगमंच वन्दनसूत्रादिकमुच्चाश्यन्, जडत्वाद, आगमस्य च ज्ञानरूपत्वाद, अतस्तस्याऽऽगमस्य देशे क्रियालक्षणे निषेधो भवति. क्रिया आगमो न भवतीत्यर्थः, अतो नोआगमत इति, इह किमुक्तं भवति?-देशे क्रियालक्षणे आगमाभावमाश्रित्य द्रव्यावश्यकमिदमिति गाथार्थः। तदेवं नोआगमतआगमाभावमाश्रित्य द्रव्यावश्यकं त्रिविधं प्रज्ञप्तं, तद्यथा-ज्ञशरीरद्रव्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org