________________
२६२
अनुयोगद्वार - चूलिकासूत्रं
इति वचनात्, अत इदमपि द्रव्यावश्यकं नयैश्चिन्त्यते, ते च मूलभेदानाश्रित्य नैगमादयः सप्त, तदुक्तम्
" नेगमसंगहववहार उज्जुसुए चेव होइ बोद्धव्वे । सद्दे य समभिरूढे एवंभूते य मूलनया ।। "
-
तत्र नैगमस्तावत्कियन्ति द्रव्यावश्यकानीच्छतीत्याह- 'नेगमस्से' त्यादि, सामान्यविशेषादिप्रकारेण नैकः अपि तु बहवो गमा वस्तुपरिच्छेदा यस्मासौ निरुक्तविधिना ककारस्य लोपात्रैगमः, सामान्यविशेषादिप्रकारैः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः, तस्य नैगमस्यैको देवदत्तादिरनुपयुक्त आगमत्त एकं द्रव्यावश्यकं, द्वौ देवदत्तयज्ञदत्तावनुपयुक्तौ आगमतो द्वै द्रव्यावश्यके, त्रयो देवदत्तयज्ञदत्तसोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि, किं बहुना ?, एवं यावन्तो देवदत्तादयो ऽनुपयुक्तास्तावन्त्येव तान्यतीतादिकालत्रयवत्तीनि नैगमस्यागमतो द्रव्यावश्यकानि, एतदुक्तं भवति नैगमो हि सामान्यरूपं विशेषरूपं च वस्त्वभ्युपगच्छत्येव, न पुनर्वक्ष्यमाणसंग्रहवत्सामान्यरूपमेव, ततो विशेषवादित्वादस्येह प्राधान्येन विविक्षितत्वाद्यावन्त: केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुनः संग्रहवत्सामान्यवादित्वादेकमेवेतिभावः
एवमेव‘ववहारस्सवि’त्ति व्यवहरणं व्यवहारो-लौकिकप्रवृत्तिस्वरूपस्तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि 'एवमेव' नैगमवदेको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकमित्यादि सर्वं वाच्यम्, इदमुक्तं भवति-व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति, न शेषान्, लोकव्यवहारे च जलाहरणव्रणपिण्डीप्रदानादिके घटनिम्बादिविशेषा एवोपकुर्व्वाणा दृश्यन्ते न पुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेव वस्तुत्वेन प्रतिपद्यतेऽसौ न सामान्यं, व्यवहारनुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेति, अतो विशेषवादिनैगममतसाम्येनातिदिष्टः अत्र चादिशेनैयेष्टार्थसिद्धेर्ग्रन्थलाघवार्थं संग्रहमतिक्रम्य व्यवहारोपन्यासः कृत इति भावनीयम् ।
'संगहस्से' त्यादि, सर्वमपि भुवनत्रयान्तर्वर्ति वस्तुनिकुरुम्बं संग्रह्णाति - सामान्यरूपतयाऽध्यवस्यतीति संग्रहस्तस्य मते एको वा अनेके वा अनुपयुक्तोऽनुपयुक्ता वा यदागमतो द्रव्यावश्यकं द्रव्यावश्यकानि वा, तत्किमित्याह- 'से एगे 'त्ति तदेकं द्रव्यावश्यकम्, इदमत्र हृदयम्-संग्रहनयः सामान्यमेवाभ्युपगच्छति न विशेषान्, अभिदधातु च - सामान्याद्विशेषा व्यतिरिक्ता स्युः अव्यतिरिक्ता वा स्युः ? यद्याद्यः पक्षस्तर्हि न सन्त्यमि, निःसामान्यत्वात्, खरविषाणवत्, अथापरः पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरिक्तत्वात्, सामान्यस्वरूपवत्, तस्मात्सामान्यव्यतिरेकेण विशेषासिद्धेर्यानि कानिचिद् द्रव्यावश्यकानि तानि तत्सामान्यव्यतिरिक्तत्वादेकमेव संग्रहस्य द्रव्यावश्यकमिति ।
-
'उज्जुसुयस्से' त्यादि, ऋजु - अतीतानागपतरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयतिअभ्युपगच्छतीति ऋजुसूत्रः, अयं हि वर्त्तमानकालभाव्येव वस्तु अभ्युपगच्छति, नातीतं विनष्टत्वान्नाप्यनागतमनुत्पत्रत्वाद्, वर्तमानकालभाव्यपि स्वकीयमेव मन्यते स्वकार्यसाधकत्वात् स्वधनवत्, परकीयं तु नेच्छति स्वकार्याप्रसाधकत्वात् परधनवत्, तस्मादेको देवदेत्तादिर
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only