________________
४५१
मूलं-३१७
'तेन"मित्यादि, ततः परमसंख्येयासंख्येयकस्य असंख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति, यावदुत्कृष्टासंख्येयासंख्येयकं न प्राप्नोति। अत्रं विनेयः प्रश्नयति-'उक्कोसु असंखेञ्जासंखेञ्जकं केत्तिय' मित्यादि, अत्रोत्तरम्-'जहन्नयं असंखेञ्जासंखेञ्ज'मित्यादि, जघन्यमसंख्येयासंख्येयकं यावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासंख्येयासंख्येयकमात्राणां जघन्यासंख्येयासंख्येयकरूपसंख्यानामित्यर्थः, राशीनामन्योऽन्यमभ्यास:-परस्परं गुणनास्वरूपः एकेन रूपेणोनः उत्कृष्टमसङ्खयेयासङ्ख्येयकं भवति, अयमत्र भावार्थ:-प्रत्येकं जघन्यासङ्खयेयासङ्घयेयकरूपा जघन्यसङ्खयेयासङ्घयेयक एव यावन्ति रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तेश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीन: उत्कृष्टमसङ्खयेयासङ्खयेयकं प्रतिपत्तव्यम्, उदाहरणं चात्राप्युत्कृष्टपरीतासङ्ख्येयकोक्तानुसारेण वाच्यम्, अत्र च यदेकं रूपं पातितं तदप्यत्र यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति-'अहवा जहन्नयं परित्तानंतय'मित्यादि, गतार्थमेव, इत्येकीयाचार्यमतं, तावद्दर्शितम्।
अन्ये त्वाचार्या उत्कृष्टमसङ्घयेयासङ्घयेयकमन्यथा प्ररूपयन्ति, तथाहि-जघन्यासङ्ख्येयासङ्ख्येयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकसङ्घयेयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा
"लोगागासपएसा धम्माधम्मेगजीवदेसा य। दव्वट्ठिआ निओआ पत्तयो चेक बोद्धव्वा ॥१॥ ठिइबंधज्झवसाणा अनुभागा जलगछेअपलिभागा।
दोण्ह य समाण समया असंखपक्खेवया दस उ॥२॥ इदमुक्तं भवति-लोकाकाशस्य यावन्त: प्रदेशस्तथा धर्मास्तिकायस्य अधर्मास्तिकायस्य एकस्य च जीवस्य यावन्तः प्रदेशाः 'दव्वट्ठिया निओय'त्ति सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानांशरीरणीत्यर्थः, 'पत्तेया चेव'त्ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यतेजोवायुवनस्पतित्रसा: प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः, ते चासङ्घयया भवन्ति, 'ठिइबंधज्झवसाण'त्ति स्थितिबन्धस्य कारणभूतानि अध्यवसायस्थानानि तान्यप्यसङ्घयेयान्येव, तथाहिज्ञानावरणस्य जघन्योऽन्तमुहूर्तप्रमाणः स्थितिबन्ध उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटीप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्नमुंहादिकोऽसङ्ख्येयभेदः, एषां च स्थितिबन्धानां निर्वर्तकानि अध्यवसायस्थानानि प्रत्ये क भिशान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्घयेयानि स्थितिबन्धाध्यवसायस्थानानि लायन्ते, एवं दर्शनावरणादिष्वपि वाच्यमिति। __'अनुभाग'त्ति अनुभागा:-ज्ञानावरणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषताः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति, अतोऽनुभागविशेषा अप्येतावन्त एव दृष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानां, 'जोगच्छेयपलिभाग'त्ति योगो-मनोवाक्यविषयं वीर्यं तस्य कवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निविभागा भागा योगच्छेदप्रतिभागाः, तेच निगोदादीनां मंज्ञिपञ्चन्द्रियपर्यन्तानां जीवानामाश्रितः जघन्यादिभेदभिन्ना असङ्ख्येया मन्तव्याः 'दुण्ह य समाण ममय'ति द्वयोश्च समयोः-उत्सर्पिण्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org