________________
४३८
अनुयोगद्वार-चूलिकासूत्रं तेसु सव्वेसु भवं वससि?, विसुद्धतराओ नेगमो भणइ
जंबुद्दीवे वसामि, जंबुद्दोवे दस खेत्ता पन्नत्ता, तंजहा-भरहे एरवए हेमवए एरन्नवर हरिवस्से रम्मगवस्से देवकुरू उत्तरकुरू पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि?, विसुद्धतराओ नेगमो भणइ-भरहे वासे वसामि, भरहे वासे दुविहे पत्रत्तं, तंजहा
दाहिणड्डभरे उत्तरडभरहे वसामि दाहिणड्डभरहे अणेगाइं गामागरणगरखेडकब्बमडंबदोणमुहपट्टणासमसंवाहसन्निवेसाई, तेसु सव्वेसु भवं वससि ?, विसुद्धतराओ नेगमो भणइपाडलिपुत्ते वसामि, पाडलिपुत्ते अनेगाई गिहाई, तेसु सव्वेसु भवं वससि?, विसु० नेग० भणइ-देवदत्तस्स घरे वसामि, देवदत्तस्स घरे अनेगा कोहगा, तेसु सव्वेसु भवं वससि ?, विसु० ने० भणइ
गभघरेवसामि, एवं विसुद्धस्स नेगमस्सवसमाणो, एवमेवववहारस्सवि, संगहस्स संथारसमारूढो वसइ, उज्जुसुअस्स जेसु आगासपएसेसुओगाढो तेसुवसइ, तिण्हंसद्दनयाणं आयभावे . वसइ । सेतं वसहिदिट्टितेणं।
वृ.वसति:-निवासस्तेन दृष्टान्तेन उच्यते, तद्यथानामकः कश्चित्पुरुषः पाटलिपुत्रादौ वसन्तं कञ्चित्पुरुषं वदेत्क्व भवान् वसति?, तत्राविशुद्धनैगमो भणति-अविशुद्धनैगमनगामतानुसारी सन्नसौ प्रत्युत्तरं प्रयच्छति-लोके वसामि, तनिवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मक-लोकादन
र्थान्तरस्त्वाद, इत्थमपि च व्यवहारदश्नात्, विशुद्धनैगमस्त्वतिव्यासिरत्वादिदमसङ्गतं मन्यते, ततस्तियल्लोके वसामीति संक्षिप्योत्तरं ददाति, विशुद्धतरस्त्विदमप्यतिव्याप्तिनिष्ठं मन्यते ततो जम्बूद्वीपे वसामीतिसंक्षिप्ततरमाह, एवं भरतवर्षदक्षिणार्द्धभरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीयम्, एवं विसुद्धस्स नेगमस्सवसमाणो वसइ एवमुत्तरोत्तरभेदापेक्षया विशुद्धनैगमस्य वसन्नेव वसति, नान्यथा, इदमुक्तं भवति-यत्र गृहादौ सवा निवासित्वेनासौ विवक्षितः तत्र तिष्ठन्नेव एष तत वसतीति व्यपदिश्यते, यदि पुन: कारणवशतोऽन्यत्र रथ्यादौ वर्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यते, अतिप्रसङ्गादिति भावः। ___ "एवमेवे'त्यादि, लोकव्यवहारनिष्ठो हि व्यवहारनयो, लोके च नैगमोक्तप्रकाराः सर्वेऽपि दृश्यन्ते इति भावः, अथ चरमनैगमोक्तप्रकारो लोके नेच्यते, कारणतो ग्रामादौ वर्तमानेऽपि देवदत्ते पाटलिपुत्रे एष वसतीति व्यपदेशदर्शनादिति चेत्, नैतदेवं, प्रोषिते देवदत्ते च इह वसति न वेति केनचित्पृष्टे प्रोषितोऽसौ नेह वसतीत्यस्यापि लोकव्यवहारस्य दर्शनादिति। . __'संगहस्से'त्यादि, प्राक्तनात् विशुद्धत्वात् संग्रहनयस्य गृहादौ तिष्ठनपि संस्तारकारूढएव शयनक्रियावान् वसतीत्युच्यते, इदमुक्तं भवति-संस्तारकेऽवस्थाना दन्यत्र निवासार्थ एवन घटते, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्, संस्तारके च वसतो गृहादौ वसतीति व्यपदेशायोग एव, अतिप्रसङ्गात्, तस्मात् क्वासौ वसतीतिनिवासजिज्ञासायां संस्तारके-शय्यामात्रस्वरूपे वसतीत्येतदेवास्य मतेनोच्यते, नान्यदीति भावः, स च नानादेशादिगतोऽप्येक एव, संग्रहस्य सामान्यवादित्वादिति।
ऋजुसूत्रस्य तु पूर्वस्मादिशुद्धत्वाद् येष्वाकाशप्रदेशेष्ववगाढस्तेष्वेव वसतीत्युच्यते, न संस्तारके, सर्वस्यापि वस्तुवृत्त्या नभस्येवावगाहाप येषु प्रदेशेषु संस्तारके वर्तते-संस्तार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org