________________
४२२
अनुयोगद्वार - चूलिकासूत्रं यमलपदं षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरि प्रस्तुतमनुष्या भवन्ति चतुर्विंशत्यघ्कस्थानान्यतिक्रम्य जधन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः, तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ?, नेत्याह
'चउजमलपयस्स हेट्ठ'ति चतुर्णा यमलपदानां समाहारश्चतुर्य मलपदं - द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः, अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदंवर्गषट्कलक्षणं तस्योपरि चतुर्यमलपदस्य-वर्गाष्टकल क्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते, षष्ठवर्गस्योपरि सप्तमवर्गस्य त्वधस्तात्प्रस्तुतमनुष्यसङ्ख्या प्राप्यत इति हृदयम्, अत्राप्येतान्येवैकोनत्रिंशदङ्कस्थानानि मन्तव्यानि, अथवा किमेतैरस्फुटैः प्रकारैः स्फुटतरमेव प्रकारमाह'अहवण' मित्यस्य शब्दस्य पाठान्तरस्य व्याख्या पूर्ववत्, षष्ठवर्ग: पञ्चमवर्गेण यदा प्रत्युत्पन्न - गुणितो भवति तदा प्रस्तुतमनुष्यसङ्ख्या समागच्छतीत्यर्थः, अथ कोऽयं षष्ठो वर्गः ? कश्च पञ्चमवर्ग इति, अत्रोच्यते, विवक्षितः कश्चिद्राशिस्तेनैवराशिना यत्र गुण्यते स तावद्वर्गः, चतुर्णा वर्ग: पोडशेति द्वितीयो वर्ग : १६, षोडशानां वर्गों द्वे शते षट्पञ्चाशदधिके इति तृतीयो वर्ग: २५६, अस्य राशेर्वर्ग: पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्ग: ६५५३६, अस्य राशेर्वर्गः सार्द्धगाथया प्रोच्यते
2
'चत्तारि य कोडिसया अउणत्तीसं च हुंति कोडीओ ।
अउणावन्नं लक्खा सत्तट्ठि चेव य सहस्सा ॥
दो य सया छन्नउया पंचमवग्गो इमो विनिद्दिट्टो 'ति अङ्कतोऽप्यष दर्श्यते ४२९४९६७२९६, अस्यापि राशेर्गाथात्रयेण वर्ग: प्रतिपाद्यते
Jain Education International
लक्ख कोडाकोडी चउरासीयं भवे सहस्साइं ।
चार अ सत्तट्ठा हुतिया कोडीकोडीनं ॥ चालं लक्खाई कोडीणं सत्त चेव य सहस्सा । तिन्निय सया य सत्तरि कोडीणं हुंति नायव्वा ॥२॥ पंचाणं ऊइ लक्खा एगावन्नं भवे सहस्साई । छस्सोलसोत्तरसया एसो छट्टो हवइ वग्गो ॥
अङ्कतोऽपि दर्श्यते १८४४६७४४०७३७०९५५१६१६, तदयं षष्ठो वर्ग: पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्यां जधन्यपदिनो गर्भजमनुष्या वर्तन्ते, सा चेयम् ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ अयं च राशिः कोटी कोट्यदिप्रकारेण केनाप्यभिधातुं न शक्यते अतः पर्यन्तादारभ्याङ्कमानसङ्ग्रहार्थं गाथाद्वयम् 'छत्तिन्नि तिन्नि सुन्नं पंचेव य नव य तिनिन्नि चत्तारि ।
पंचेव तिन्नि नव पंच सत्त तिन्नेव तिन्नेव ॥ चउ छ हो चउ एक्को पण दो छक्केक्कगो य अद्वेव ।
For Private & Personal Use Only
www.jainelibrary.org