________________
४१४
अनुयोगद्वार-चूलिकासूत्रं वन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अत: पारिशेष्यात् तिर्यङ्भनुष्यैस्तथाविधकर्मोदयाद् यानि बद्धानि-गृहीतानीत्यर्थः, पृच्छासमये तैः सह यानि सम्बद्धानि तिष्ठन्तीतियावत्, तानि सामान्यतः सर्वाण्यसङ्ख्येयानि, न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टि-'असंखेज्जाहि'मित्यादि, प्रतिसमयं यद्येकैकं शरीरमपहियते तदा असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपहियन्ते, असङ्ख्येयोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः, तदेतत्कालतो मानमुक्तम्, अथ क्षेत्रतस्तदाह_ 'खत्तेओ असंखेज्जा लोग'त्ति, इदमुक्तं भवति-प्रत्येकमसङ्खयेयप्रदेशात्मिकायां स्वकीयस्वकीयावगाहनायां यद्येकं शरीरं व्यवस्थाप्यते तदाऽसङ्ख्येया लोकास्तैभ्रियन्ते, एकैकस्मिन्नपि नभ:प्रदेशे प्रत्येकं तैव्य॑वस्थाप्यमानैरसङ्ख्येया लोका भ्रियन्ते एव, केवलं शरीरस्य जघन्यतोऽप्यङ्ग्येयप्रदेशावगाहित्वादेकस्मिन् प्रदेशेऽवगाह: सिद्धान्ते निषिद्ध इति नेत्थमुच्यते, असत्यकल्पनया उच्यतामेवमपि को दोष इति चेत्, को निवारयिता?, केवलं सिद्धान्तसंवादिप्रकारेण प्ररूपणेऽदुष्टे लभ्यमाने स एव स्वीकर्तुं श्रेयानिति, आह-भवत्वेयं, किंत्वौदारिकशरीरिणां मनुष्यतिरश्चामनन्तत्वात् कथमनन्तानि शरीराणि न भवन्ति येनासङ्खयेयान्येवोक्तानि ?, उच्यते, प्रत्येकशरीरिणस्तावदसङ्ख्याता एवातस्तेषां शरीराण्यप्यसङ्ख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्तां किन्तु तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसङ्ख्येयान्येवेति।
'तत्थणं जे ते मुक्केल्लये'त्यादि, भवान्तरसङ्क्रान्ती मोक्षगमनकाले वा जीवैर्यान्यौदारिकाणि मुक्तानि-त्यक्तानि समुज्झितानि तान्यनन्तानि प्राप्यन्ते, अनन्तकस्यानन्तकत्वान्न ज्ञायते कियदप्यनन्तकमिदं, ततः कालेन विशेषयति-प्रतिसमयमेकैकापहारे अनन्ताभिरुत्सर्पिण्यवसपिणीभिरपहियन्ते, तत्समयराशितुल्यानि भवन्तीत्यर्थः, अथ क्षेत्रतो विशिनष्टि-'खेत्तओ अनंता लोग'त्ति, क्षेत्रत:-क्षेत्रमाश्रित्यानन्तानां लोकप्रमाणखण्डानां यः प्रदेशराशिस्तत्तुल्यानि भवन्तीति भावः, द्रव्यतो नियमयति-'अभवसिद्धिएहि'मित्यादि, अभव्यजीवद्रव्यसङ्ख्यातोऽनन्तगुणानि सिद्धजीवद्रव्यसङ्घयायास्त्वन- भागवर्तीनि।
आह-यद्येवं यैः सम्यक्त्वं लब्ध्वा पुनर्मिथ्यात्वे गमनात् तत्त्यक्तं ते प्रतिपतितसम्यग्दृष्टयोऽप्यभव्येभ्योऽनन्तगुणा: सिद्धानामनन्तभागे प्रज्ञापनामहादण्डके पठ्यन्ते, तत्किमेतानि तत्तुल्यानि भवन्ति?, नैतदेवं, यदि तत्समसङ्ख्यानि भवेयुस्तदा तथैवेह सूत्रे तानि निर्दिष्टानि स्युः, न चैवंततः प्रतिपतितसम्यग्दृष्टिराशेः कदाचिद्धीनानि कदाचित्तुल्यानि कदाचित्त्वधिकानि इति प्रतिपत्तव्यमिति। पुनरप्याह-ननु जीवैः परित्यक्तशरीराणामानन्त्यमेव तावत्रावगच्छामः, तथाहि-किमेतानि श्मशानादिगतान्यक्षतान्येव यानि तिष्ठन्ति तानि गृह्यन्ते उत खण्डीभूय परमाण्वादिभावेन परिणामान्तरापन्नानि?, यद्याद्य: पक्षस्तहि तेषामनन्तकालावस्थानाभावात् स्तोकत्वादानन्त्यं नास्त्येव, अथ चापर: पक्षस्तहिंसकश्चिद् पुद्गलोऽपि नास्ति योऽतीताद्धायामेकैकजीवेनौदारिकशरीररूपतया अनन्तशः परिणमय्य नमुक्तः, ततः सर्वस्यापि पुद्गलास्तिकायस्य ग्रहणमापन्नम्, एवं च सत्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वाद्, अत्रोच्यते, नैष दोषो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org