________________
मूलं-२७०
३९५ विषयज्ञानपनार्थ राजग्रहणं दिक्त्रयभेदभिन्नसमुद्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्ताँश्चतुरोऽपि चक्रेण वर्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य- परिपूर्णषटखण्डभरतभोक्तुरित्यर्थः, चत्वारिमधुरतृणफलान्येक: श्वेतसर्षपः, षोडश सर्षपा एकं धान्यमाषफलं, द्वे धान्यमाषफले एक गुञ्चा, पञ्ज गुञ्जा एक; कर्ममाषकः, षोडश कर्ममाषक एकः सुवर्णः, एतैरष्टभिः काकणीरत्रं निष्पद्यते, एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तंल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम्, अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावात् द्वादश अस्त्रयः-कोट्य यत्र तद्वादशास्त्रिका, कर्णिका:-कोणास्तेषां चाध उपरिच प्रत्येकं चतुर्णां सद्भावदष्टकर्णिकम, अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्रमिति यावत् प्रज्ञप्त-प्ररूपितं, तस्य काकिणीरत्रस्यैकैका कोटिरुत्सेधांगुलप्रमाणविष्कम्भा द्वादशाप्यस्रय एकैकस्य उत्सेधांगुलप्रमाण भवंतीत्यर्थः, अस्य समचतुरस्त्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधांगुलप्रमाण इत्युक्तं भवति, यैव च कोटिरु/कृत्य आयामं प्रतिपद्यते सैव तिर्यक् व्यवस्थापिता विष्कम्भभागो भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्त्रत्वात्तस्येति । तदेवं सर्वत उत्सेधांगुलप्रमाणमिदं सिद्धं, यच्चान्यत्र-'चउरंगुलप्पमाणा सुवण्णवस्कारणी नेये'ति श्रूयते, तन्मतान्तरु संभाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति। ___ तदेकैककोटिगतमुत्सेधांगुलं श्रमणस्य भगवतो महावीरस्या गुलं, कथमिदम्?, उच्यते, श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विशत्युत्सेधांगुलमानत्वादष्टषष्टयधिकशतांगुलमानो भगवानुत्सेधांगुलेन सिद्धो भवति, स एव चात्मांगुलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यंगुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधांगुलं श्रीमन्महावीरात्मांगुलापेक्षया अर्धाजंगुलमेव भवति, येषां तं मतेन भगवानात्मांगुलेनाष्टोत्तरशतांगुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टमानत्वात् तन्मतेन भगवत एकस्मिन्नात्मांगुले एकमुत्सेधांगुलं तस्य च पञ्च नवमभागा भवन्ति, अष्टषष्टयधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन तु भगवनान्विंशत्यधिकमंगुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्, तन्मतेन भगवत एकस्मिन्नात्मांगुले एकमुत्सेधांगुलं तस्य च द्वौ पञ्चभागौ भवतः, अष्टषष्टयधिकशतस्य विंशत्यधिकशतेन भागो हृते इयत एव लाभात्, तदेवमिहाद्य-मतमपेक्ष्यैकमुत्सेधांगुलं भगवदात्मांगुलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति।
तदुच्छ्यांगुलं सहस्रगुणितं प्रमाणांगुलं भवति, कथमिदमवसीयते?, उच्यते, भरतश्चक्रवर्ती प्रमाणामुलेनात्माङ्गुलेन च किल विंशतिशतमगुलानां भवति, भरतात्माङ्गुलस्य प्रमाणा
गुलस्य चैकरूपत्वात्, उत्सेधागुलेन तु पञ्चधनुःशतमानत्वात् प्रतिधनुश्च षण्णवत्यङ्गुलसद्भावाद् अष्टचत्वारिंशत् सहस्राण्यङ्गुलानां संपद्यते, अत: सामार्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारिंशतान्युत्सेधागुलानां भवन्ति, विंशत्यधिकशतेन अष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाभात्, यद्येवमुत्सेधाङ्गुलात्प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org