________________
मूलं - २६३
वनराजयः,
सन्तो भजन्त्येतामिति सभा - पुस्तकवाचन भूमिर्बहुजनसमागमस्थानं वा, अध उपरि च समखातरूपा खातिका, अधः सङ्कीर्णोपरिविस्तीर्णा खातरूपा तु परिखा, प्राकारोपरि आश्रयविशेषाः अट्टालकाः, गृहाणां प्रारारस्य चान्तरे अष्टस्तविस्तारो हस्त्यादिसञ्चारमार्गश्चरिका, प्रतोलीद्वारणां परस्परतो ऽन्तराणि गोपुराणि, राजानां देवतानां च भवनानि प्रासादा: उत्सेधबहुला वा प्रासादाः, गृहाणि सामान्यजनानां सामान्यानि वा, शरणानि तृणमयावसरिकादीनि लयनानिउत्कीर्णपर्वतगृहाणि गिरिगुहा वा कार्यटिकाद्यावासस्थानं वा आपणा - हट्टाः नानाहट्टगृहाध्यासितत्रिकोणो भूभागविशेषः, शृङ्गाटकं, स्थापना त्रिपथसमागमो वा शृङ्गाटकं त्रिकं तं त्रिपथसमागम एव तथा प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा ( द्वा) चतुष्पथसमागमो वा चतुष्पणसमागम एव, षट्पथसमागमो वा चत्वरं चतुर्मुखदेवकुलिकादि चतुर्मुखं महान् राजमार्गो महापथः इतरे पन्थान: देवकुलसभादीनि पदानि क्वचिद्वाचनाविशेषे अत्रैवान्तरे दृश्यन्ते, शकटंगड्डुकादि, रथो द्विधा-यानरथः संग्रामरथश्च तत्र संग्रामरथस्योपरि प्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य त्वसौ न भवतीति विशेषः, यानं गन्त्र्यादि जुग्गत्तिगोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्त्रवेदिकोपशोभितं जम्पानं, गिल्लित्तिहस्ति उपरि कोल्लरूपा या मानुषं गिलतीव, थिल्लित्ति-लटानां यदड्डापल्लाणां रूढं तदन्यविषयेषु थिल्लीत्युच्यते सीयत्तिशिविका कटूकारांच्छादितो जम्पानविशेष: 'संदमाणिय'त्ति पुरुषप्रमाणायामो जंम्पानविशेष एव लोहित्ति-लोही मण्डनकाचिपचनिका कविल्ली लोहकडाहित्ति-लोहमयं बृहत्कडिल्लं भाण्डं - मृन्मयादिभाजनं मात्र:- कांश (स्य) भाजनाद्युपकरणमात्राया आधारविशेष: उपकरणं त्वनेकविधं कटपिटकशूर्पादिकं शेषं तु यदिहं क्वचित्किञ्चिन्न व्याख्यातं तत्सुगमत्वादिति
मन्तव्यं ।
तदेवमात्मांगुलेनात्मीयात्मीयकालसम्भवीनि वस्तून्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्यशब्दो द्रष्टव्यः ।
इदं चात्मांगुलं सूच्यंगुलादिभेदात् त्रिविधं तत्र दैर्येणांगुलायता बाहल्यतस्त्वेशप्रादेशिकी नभः प्रदेश श्रेणिः सूच्यंगुलमुच्यते, एतच्च सद्भावतोऽसंख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं दृष्टव्यं सूची सूच्यैव गुणिता प्रतरांगुलम्, इदमपि परमार्थतोऽसंख्येयप्रदेशात्मकम्, असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिपदेशात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येकं प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसंख्यंसंपद्यते, प्रतरश्च सूच्या गुणितो दैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं धनांगुल भवति, देर्ध्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्य्यया घनस्येह रूढत्वात्, प्रतराङ्गुलं तु दैर्ध्यविष्कम्भाभ्यामेव समं, न पिण्डतः तस्यैकप्रदेशमात्रत्वादिति भावः, इदमपि वस्तुवृत्त्याऽसंख्येयप्रदेशमानम्, असत्प्ररूपणया तु सप्तविंशतिप्रदेशात्मकं पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एताबतामोव प्रदेशानां भावाद्, एषां च स्थापना अनन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा भावनीया, तथा च दैर्घ्यविष्कम्भपिण्डैस्तुल्यामिदमापद्यते ।
-
30/25
Jain Education International
३८५
For Private & Personal Use Only
www.jainelibrary.org