SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ३८४ अनुयोगद्वार - चूलिकासूत्रं महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यंगुलप्रमाणत्वाद्, भवन्ति च विशिष्टाः स्वरादयः प्रधानफलदायिनो, यत उक्तम् "अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥” इति गाथार्थः ॥ मू. ( २६३ ) एएणं अंगुलपमाणेणं छ अंगुलाई पाओ दो पाया विहत्थी दो विहत्थीओ रयणीओ कुच्छी दो कुच्छीओ दंडं धनू जुगे नालिआ अक्खे मुसले दो घनुसहस्साइं गाउअं चत्तारि गाउआई जोअणं ॥ वृ. एतेनांगुलप्रमाणेन षडंगुलानि पादः, पादस्य मध्यतलप्रदेशः षडंगुलविस्तीर्णः पादैकदेशत्वात् पादः द्वौ च युग्मीकृतौ पादौ वितस्तिः, द्वे च वितस्ती रत्रि:, हस्त इत्यर्थः, रत्रिद्वयं कुक्षिः, प्रत्येकु कुक्षिद्वयनिष्पन्नास्तु षट् प्रमाणविशेषा दण्डधनुर्युगनालिकाऽक्षमुशललक्षणा भवन्ति, तत्राक्षो - धूः शेषाश्च गतार्थाः, द्वे धनुः सहस्रे गव्यूतं, चत्वारि गव्यूतानि योजनम् । मू. (२६३) एएणं आयंगुलपमानेनं किं पओअणं ?, २ एएणं आयंगुलेणं जे नं जया मनुस्सा हवंति तेसि नं तया नं आयंगुलेणं अगडतलागदहनदीवाविपुक्खरिणीदीहियगुंजालि आरो सरा सरपंतिआओ सरसरपंतिआओ बिलपंतिआओ आरामुज्जाणकाणणवणवणसंडवणराईओ देउलसभापवाथू भखाइ अपरिहाओ पागारअट्टालयचरिअदारगोपुरपासायघरसरणलयणआवणसिंघाडगतिगचउक्कचच्चरच उम्मुहमहापहपहसगडंरहजाणजुग्गगिल्लिथिल्लिसिविअसंदमाणिआओ लोहीलोहकडाहकडिल्लय भंडमत्तोवगरणमाईणि अज्जकालिआइं च जोअणाई भविज्जति, से समासओ तिविहे पत्रत्ते, तंजहा- सूईअंगुले पयरंगुले घनंगुले अंगुलायया एगपएसिया सेढी सूई अंगुले, सुई सूइगुणिया पयरंगुले, पथरं सूइए गुणितं घनंगुले । एएसि णं भंते! सूइअंगुलपयरंगुलघणंगुललाणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, सव्वथोवे सूइअंगुले, पयरंगुले असंखेज्जगुणे, घनंगुले असंखिज्जगुणे, से तं आयंगुले । वृ. गतार्थं, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽगुलेन स्वकीयस्वकीयकालसम्भवीन्यवटहृदादीनि मीयन्त इति सणटङ्कः, तत्र अवटः- कूपः तडागः - खानितो जलाशयविशेष: वाप्यः - चतुरस्रा जलाशयविशेषाः, पुष्करिण्यो - वृत्तास्ता एव पुष्करवन्त्यो वा दीर्घिकाः-सारिण्यः सारिण्य एव वक्रा गुञ्जालिका भण्यन्ते सरः- स्वयंसम्भूतो जलाशयविशेष एव सरपंतियाउत्ति - पङ्क्तिभिर्व्यवस्थापितानि सरांसि सरः पङ्क्तयः सरसरपंतियाउत्ति-यासु सरः पङ्क्तिष्वेकस्मात्सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति ताः सरःसरः पङ्क्तयः बिलपङ्क्तयः प्रतीताः माधवीलतादिषु दम्पत्यादीनि येष्वारमन्ति क्रीडन्ति ते आरामाः पुष्पफलादिसमृद्धानेकवृक्षसंकुलान्युत्सवादी बहुजनपरिभोग्यान्युद्यानानि सामान्य-वृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्यः परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपि वनेभ्यः पर्यन्तवर्तीनि काननानि, शीर्णवृक्षकलितानि वा काननानि, एकजातीयवृक्षाकीर्णानि वनानि, अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि वनखण्डानि, एकजातीयानामितरेषांअ वा तरूणां पङ्क्तयो www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy