________________
अनुयोगद्वार-चूलिकासूत्रं न दृश्यत एव, षट्पञ्चाशदधीकशतद्वयपलप्रमाणा माणिका, द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेव, यावदेतेन रसमानप्रमाणेन किं प्रयोजनम् ?, अत्रोत्तरम्'एतेन' रसमानप्रमाण वारकघटककरकगगरीतिककरोडिकाकुण्डिकासंश्रितानां रसानां रसस्य यन्मानं तदेव प्रमाणं तस्यनिवृत्तिः-सिद्धिस्तस्या लक्षणं परिज्ञानं भवति, तत्रातीवविशालमुखा कुण्डिकैव करोडिका उच्यते, शेषं प्रतीतं, क्वचित् 'कलसिए'ति दृश्यते, तत्र लघुतर: कलश एव कलशशिकेत्यभिधीयते एवमन्यदपि वाचनान्तरमभ्यूह्यम्। 'से त'मित्यादि निगमनद्वयम् । अथोन्मानमभिधित्सुराह
मू.( २५३ वर्तते) से किं तं उम्माने?, २ जन्नं उम्मिणिज्जइ, तंजहा-अद्धकरिसो करिसो पलं अद्धपलं अद्धतुला तुला अद्धभारो भारो, दो अद्धकरिसा करिसो दो करिसा अद्धपलं दो अद्धपलाइं पलं पंच पलसइआ तुला दस तुलाओ अद्धभारो वीसं तुलाओ भारो, एएणं उम्मानपमाणेणं किं पओअणं?, एएणं उम्माणपमानेनं पत्ताअगरतगरचोअअकुंकुमखंडगुलमच्छडिआईणं दव्वाणं उम्माणपमाणनिवित्तिलक्खणं भवइ, से तं उम्मानपमाणे।
वृ. उन्मीयते तदित्युन्मानम् उन्मीयते अनेनेति वा उन्मानमित्यादि, तत्र कर्मसाधनपक्षमधिकृत्याह-'जं नं' उम्मिणिञ्जई' त्यादि, यदुन्मीयते-प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानं, तद्यथा-अर्द्धकर्ष इत्यादि, पलस्याष्टमांशोऽर्द्धकर्षः, तस्यैय चतुर्भागः कर्षः, पलस्याई अर्द्धपलमित्यादि, सर्वं मागधदेशप्रसिद्धं सूत्रसिद्धमेव, नवरं पलाशपत्रकारीपत्रादिकं पत्रं, चोयओ फलविशेषः, मत्स्यण्डिका-शर्कराविशेषः । अवमानं विवक्षुराह
मू.( २५३ वर्तते) से किंतं ओमाणे?, २ जण्णं ओमिणीज्जइ, तंजहा-हत्थेण वा दंडेण वा धणंकेन वा जुगेण वा नालिआए वा अक्खेण वा मुसलेण वा
वृ. अवमीयते-परिच्छिद्यते खाताधनेनेति अवमानं-हस्तदण्डादि, अथवा अवभीयतेपरिच्छिद्यते हस्तादिना यत्तदवमानंखातादि, तत्र कर्मसाधनपक्षमधिकृत्य तावदाह-'जं ण'मित्यादि, यदवमीयते खातादि तदवमानं, केनावमीयते इत्याह-'हत्थेण वा दंडेण वा इत्यादि, तत्र हस्तो-वक्ष्यमाणस्वरूपश्चतुर्विंशत्यंगुलमानः, अनेनैव हस्तेन चतुभिर्हस्तैर्निष्पन्ना अवमानविशेषा दण्डधनुर्युगनालिकाऽक्षमुशलरूपा षट् संज्ञा लभ्यन्ते, अत एवाहमू.( २५४) दंडधनूजुगनालिआ य अक्खमुसलं च चउहत्थं ।
दसनालिअंच रज्जु विआण ओमाणसन्नाए। वृ. 'दंडं' गाहा, दण्डं धनुर्युगं नालिकांचाक्षं मुशलं च करणसाधरपक्षमङ्गोलकृत्यावमानसंज्ञया विजानीहीति सम्बन्धः, दण्डादिकं प्रत्येकं कथंभूतमित्याह-चतुर्हस्तं दशभिर्नालिकाभिनिष्पन्नां रज्जु च विजानीयवमानसंज्ञयेति गाथार्थः । ननु यदि दण्डादयः सर्वे चतुर्हस्तप्रमाणास्तषेकेनैव दण्डाद्यन्तोपादानेन चरितार्थत्वात् किमिति षण्णामप्युपादानम्?, उच्यते, मेयवस्तुषु भदेने व्याप्रियमाणत्वात्, तथा चाहमू.( २५५) वत्थुमि हत्थमेज्जं खित्ते दंडं धणुं च पत्थंमि।
खायं च नालिआए विआण ओमाणसन्नाए । वृ. 'वत्थुमि गाहा, वास्तुनि-गृहभूमौ मीयतेऽनेनेति मेयं-मानमित्यर्थः, लुप्तद्वितीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org