SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मूलं - २५३ ततश्चैकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात्परमाण्वादिद्रव्यस्यापि कर्मसाधनाप्रमाणशब्दवाच्यताऽदुष्टैव, करणसाधनपक्षे त्वेकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेव मुख्यतया प्रमाणमुच्यते द्रव्यं तु तत्स्वरूपयोगदुपचारत:, भावसाधनतायां तं प्रमितेः प्रमाणप्रमेयाधीनत्वादुपचारादेव प्रमाणप्रमेययोः प्रमाणताऽवगन्तव्या, तदेवं कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्षयोस्तूपचारत इत्यदोषः । इदं च यथोत्तरमन्यान्यसंख्योपेतैः स्वगतैरेव प्रदेशैर्निष्पन्नत्वात् प्रदेशनिष्पन्नमुक्तं, द्वितीयं तु स्वगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो-भङ्गो विकल्पः प्रकार इतियावत्तेन निप्पन्नं विभागनिष्पत्रं, तथाहि न धान्यमानादेः स्वगतप्रदेशाश्रयणेन स्वरूपं निरूपयिष्यते अति तु 'दो असईओ पसई'त्यादिको यो विशिष्टः प्रकारस्तेनेति । तच्च पञ्चविधं तद्यथा-मानम् उन्मानम् अवमानं गणिमं प्रतिमानं पुनरपि मानप्रमाणं द्विधा - धान्यमानप्रमाणं च रसमानप्रमाणं च तत्र मानमेव प्रमाणं मानप्रमाणं धान्यविषयं मानप्रमाणं तच्च 'दो असईओ' इत्यादि, अश्नुतेतत्प्रभवत्वेन समस्तधान्यमानानि व्याप्नोतीत्यसतिः - अवाङ्मुखहस्ततलरूपा, तत्परिच्छित्रं धान्यमपि तथोच्यते, तद्द्वयेन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः, द्वे च प्रसृति सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वाद्, अत इयं तत्प्रसिद्धा काचिदवगन्तव्याः चतस्रः सेतिका: कुडवः, ते चत्वारः प्रस्थः, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव, यावदष्टभिराढकशतैर्निर्वृत्तो वाहः, अत्राह शिष्यः - एतेनासत्यादिना धान्यमानप्रमाणेन किं प्रयोजनंकिमनेन विधीयते इत्यर्थः, अत्रोत्तरं, एतेन धान्यमानप्रमाणेन 'मुक्तोलीमुखेदूरालिन्दापचारसंश्रितानां' मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम् - इयत्तालक्षणं तदेव प्रमाणं तस्य निर्वृत्तिः - सिद्धिस्तस्या लक्षणं परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः, तत्र मुक्तोली - मोट्टा (दा) अध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्टिका, सुखं या उपरि यद्दीयते, सुम्बादिव्यूतं ढञ्चनकादि तदिदूरं, आलिन्दकं - कुण्डुल्कम् अपचारिदीर्घतरधान्यकोष्ठाकाविशेषः । 1 ३७९ रसमानप्रमाणमाह-'से कि त 'मित्यादि, रसो-मद्यादिस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणं किमित्याह - धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितं चतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते - क्रियते तद्रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वात्किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवो ऽतो बहिः शिखाभावात् धान्यामानच्चतुर्भागवृद्धिलक्षणया अभ्यन्तरशिखया युक्तत्वाच्चभ्यन्तरशिखायुक्तमित्युक्तं, तद्यथा - चतुःषष्टिकेत्यादि, इदमुक्तं भवति - षट्पञ्चाशदधिकशतद्वयपलमाना माणिकानाम वक्ष्यमाणं रसमानं, तस्य चतुःषष्टितमभागनिष्पन्ना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तम भागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वात् द्वात्रिंशत्पलप्रमाणा अष्टभागीका, तस्या एव चतुर्भागवर्तित्वात् चतुः षष्टिपलमाना चतुर्भागीका, तस्या एवार्द्ध भागवर्तिनी अष्टाविंशत्यधिकपलशतमानाऽर्द्धमाणिका, इदं च बहुषु वाचनाविशेषेषु Jain Education International For Private & Personal Use Only ww - www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy