________________
मूलं-२५१
३७७ भ्रमर: मुहुर्मुहुर्लसतीति मुसलं करिव लम्बते त्थेति च करोति कपित्थं चिदितकरोति खल्लं च भवती चिक्खलं ऊर्ध्वकर्ण: उलूक: मेखस्य माला मेखला, से तं निरुत्तिए। से तं भावपमाणं । से तं पमाणनामे । से तं दसनामे से तं नामे। नामति पयं समत्तं ।
वृ.एते च कर्मशिल्पादयोऽर्थास्तद्विततप्रत्ययस्योत्पित्सोनिमित्तीभवन्तीत्येतद्भेदात्तद्धित्तजं नामाष्टविधमुच्यत इति भावः, तत्र कर्म तद्वितजं दोसिए सोत्तिए' इत्यादि, दूप्यं पण्यमस्येति दाषिकः, सूत्रं पण्यमस्येति सौत्रिकः, शेषं प्रतीतं, नवरं भाण्डविचार: कर्मास्येति भाण्डवैचारिकः, कौलालानि-मृद्भण्डानि पण्यमस्येति कौलालिकः, अत्र क्वापि तणहारए' इत्यादिपाठो दृश्यते, तत्र कश्चिदाह-नन्वत्र तद्वितप्रत्ययो ने कचिदुपलभ्यते तथा वक्ष्यमाणेष्वपि 'तुनाए तंतुवाए' इत्यादिषु नायं दृश्यते तत्किमित्येवंभूतनाम्नामिहोपन्यासः?, अत्रोच्यते, अस्मादेव सूत्रोपन्यासात् तृणानि हरति-वहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थो द्रष्टव्यः, ततो यद्यपि साक्षात्तद्धितप्रत्ययो नास्ति तथापि तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशो न विरुध्यते, यदि तद्विततोत्पत्तिहेतुरर्थोऽस्ति तहि तद्वितोऽपि कस्मान्नोत्पद्यत इति चेत् ? लोके इत्थमेव रूढत्वादिति ब्रूमः, अथवा अस्मादेवाद्यमुनिप्रणीतसूत्रज्ञापका-देवं जानीयाः-तद्वितप्रत्यया एवामी केचित् प्रतिपत्तव्या इति। अथ शिल्पतद्वितनामोच्यतेवस्त्रिकः, वस्त्र शिल्पमस्येति तन्त्रीवादनं शिल्पमस्येती तान्त्रिकः, तुन्नाए तंतुवाए इत्यादि प्रतीतम्. आक्षेपपरिहारौ उक्तावेव, यच्चेह पूर्वं च क्वचिद्वाचनाविशेषेऽप्रतीतं नाम दृश्यते तद्देशान्तररूढितोऽवसेयम्। अथश्लाघातद्धितनामोच्यते-'समणे' इत्यादि, श्रमणादीनि नामानि श्लाघ्येप्वर्थेषु साध्वादिषुरूढान्यतोऽस्मादेव सूत्रनिबन्धात् श्लाघ्यार्थास्तद्धितास्तदुत्पत्ति-हेतुभूतमर्थमात्रं वा अत्रापि प्रतिपत्तव्यम् । संयोगतद्वितनाम राज्ञः श्वसुर इत्यादि, अत्र सम्बन्धरूपः संयोगो गम्यते, अत्रापि चास्मादेव ज्ञापकात् तद्वितनामता, चित्रं च पूर्वगतं शब्दप्राभूतमप्रत्यक्ष च नः अतः कथमिह भावनास्वरूपमस्मादृशैः सम्यगवगम्यते-समीतद्वितनाम गिरिसमोपे नगरं गिरिनगरम्, अत्र अदूरभवश्चे' त्य न भवति, गिरिनगरमित्येव प्रतीतत्वात्, विदिशाया अदूरभवं नगर वैदिशम्, अत्र त्वदूरभवश्चेण् भवत्येव, इत्थमेव रूढत्वादिति । ___ संयूथतद्वितनाम 'तरंगवइक्कारए' इत्यादि, तद्वितनामता चेहोत्तरत्र च पूर्ववद्भावनीया । ऐश्वर्यतद्वितनाम-'राईसरे'इत्यादि, इह राजादिशब्दनिबन्धनमैश्वर्यमवगन्तव्यं, राजेश्वरादिशब्दार्थस्त्विहैव पूर्व व्याख्यात एव। अपत्यतद्वितनाम- 'तित्थयरमाया' इत्यादि, तीर्थकरोऽपत्यं यस्याः सा तीर्थकरमाता, एवमन्यत्रापि सुप्रसिद्धेनाप्रसिद्ध विशिष्यते, अत एव तीर्थकरादिभिर्मातरो विशेषिताः, तद्वितनामत्वभावना तथैव, गतं तद्वितनाम। ___ अथ धातुजमुच्यते-'से किं तं धाउए' इत्यादि, भूरयं परमस्मैपदी धातुः सत्तालक्षणस्यार्थस्य वाचकत्वेन धातुजं नाभेति, एवमन्यत्रापि, अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनंभणनं-निरुक्तं तत्र भवं नैरुक्तं, तच्च मह्यां शेते महिष इत्यादिकं पाठसिद्धमेव, तदेवमुक्तं नैरुक्तं नाम।
तद्भणने चावसितं भावप्रमाणनाम, तदवसाने च समर्थितं प्रमाणनाम तत्समर्थनेच समापितं गौणादिकं दशनाम, एतैरपि च दशनामाभिः सर्वस्यापि वस्तुनोऽभिधानद्वारेण संग्रहाद्दशनामेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org