SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ३७६ अनुयोगद्वार - चूलिकासूत्रं भवति, यथा पुरुषश्च पुरुषश्चेति पुरुषौ, द्वयोश्च लुप्तयोरात्मनश्चार्थे वर्तमानाद्बहुवचनं यथा पुरुषश्च ३ पुरुषाः, एवं बहूना लुसानामात्मनश्चार्थे वर्तमानादपि बहुवचनं यथा पुरुषश्च ४ पुरुषा इति, जातिविवक्षायां तु सर्वत्रैकवचनमपि भावनीयम् । अतः सूत्रमनुश्रीयते - 'जहा एगो पुरिसो 'त्ति यथैकः पुरुषः, एकवचनान्त: पुरुषशब्द इत्यर्थः, एकशेषे समासे इति बह्वर्थवाचक इति शेषः, 'तहा बहवे पुरिस' त्ति तथा बहव: पुरुषा:, बहुवचनान्त: पुरुषशब्द इत्यर्थः, एकशेषे समासे सति बह्वर्थवाचक इति शेषः, यथा चैकशेषे समासे बहुवचनान्त: पुरुषशब्दो बह्वर्थवाचकस्तथैकवचनान्तोऽपीति न कश्चिद्विशेषः, एतदुक्तं भवतियथा पुरुषश्च ३ इति विधाय एकपुरुषशब्दशेषता क्रियते तदा यथैकवचनान्त: पुरुषशब्दो बह्वर्थान् वक्ति तथा बहुवचनान्तोऽपि यथा बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तबहुवचनान्तयोर्विशेषः, केवलं जातिविवक्षायामेकवचनं बह्वर्थविवक्षायां तु बहुवचनमिति । एवं कार्षापणशाल्यादिष्वपि भावनीयम् । अयं च समासो द्वन्द्वविशेष एंवोच्यते, केवलमेकशेषताऽत्र विधीयते इत्येतावता पृथगुपात्त इति लक्ष्यते, तत्त्वं तु सकलव्याकरणवेदिनो विदन्तीत्यलमतिविजृम्भितेन, गतं सामासिकम् । मू. (२४९ ) से किं तं तद्धितए ?, २ अट्टवीहे पत्ते, तंजहा वृ. तद्धिताञ्जातं तद्धितजम्, इह तद्धितशब्देन तद्धितप्राप्तिहेतुभूतोऽर्थो गृह्यते, ततो यत्रापि तुनाए तंतुवा तद्धितप्रत्ययो न दृश्यते तत्रापि तद्धेतभूतार्थस्य विद्यमानत्वातद्धितजत्वं सिद्धं भवति । मू. ( २५० ) कम्मे सिप्पसिलोए संजोगसमीअवो अ संजूहो । इस्सरिअ अवच्चेण य तद्धितनामं तं अट्ठविहे ।। वृ. 'कम्मे 'गाहा पाठसिद्धा, नवरं श्लोकः - श्लाघा संयूथो - ग्रन्थरचना, मू. ( २५१ ) से किं तं कम्मनामे ?, २ तणहारए कट्टहारए पत्तहारए दोसिए सोत्तिए कप्पासिए भंडवे आलिए कोलालिए, से तं कम्मनामे । से किं तं सिप्पनामे ?, २ तुन्नए तंतुवाए पट्टकारे उपट्टे बरुडे मुंजकारे कटुकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे सेलकारे कोट्ठिमकारे, से तं सिप्पनामे । से किं तं सिलोअनामे ?, २ समणे माहणे सव्वातिही, से तं सिलोअनामे । से किं तं संजोगनामे ?, २ स्नो ससुराए स्नो जामाउए रनो साले स्नो भाउए स्त्रो भगिणीवई, से तं संजोगनामे । से किं तं समीवनामे ?, २ गिरिसमीवे नयरं गिरिनयरं विदिसासमीवे नयरं वेदिसं नयरं बेन्नाए समीवे नयरं बेनायडं तगराए समीवे नयरं तगरायडं, से तं समीवनामे । से किं तं संजूहनामे ?, २ तरङ्गवइक्कारे मलयवइक्कारे अत्तानुसद्विकारे बिंदुकारे, से तं संजूहनामे । से किं तं ईसरी अनामे ?, २ राईसरे तलवरे माडंबिए कोडुबिए इब्धे सेट्ठी सत्थवाहे सेनावई, से तं ईसरिअनामे। से किं तं अवच्चनामे ?, २ अरिहंतमाया चक्कवट्टिगाया बलदेवमाया वासुदेवमाया रायमाया मुणिमाया वायगमाया, से तं अवच्चनामे। से तं तद्धितए । से किं तं धाउए ?, २ भू सत्तायां परस्मै भाषा एध वृद्धौ स्पर्द्ध संहर्षे गाधृ प्रतिष्ठालिप्सयोर्ग्रथे च बाध लोडने, से तं धाउए। से किं तं निरुत्तिए ?, २ मह्यां शेते महिषः, भ्रमति च रौति च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy