SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ३७४ अनुयोगद्वार-चूलिकासूत्रं अवकरए उकुरुडए उज्झिअए कज्जवए सुप्पए, से तं जीवियनामे से किं तं आभिप्पाइअनामे?, अंबए निंबए बकुलए पलासए सिणए पिलूए करीरए, से तं आभिप्पाइअनामे। सेतं ठवणप्पमाणे। वृ. 'से किं तं देवयानामे'इत्यादि, अग्निदेवतासु जातः आग्निकः एवमग्निदत्तादीन्यपि, नक्षत्रदेवतानां संग्रहार्थम् 'अग्गी'त्यादि माथाद्वयं, तत्र कृत्तिकानक्षत्रस्याधिष्ठाता अग्निः, रोहिण्याः प्रजापतिः, एवं मृगशिरःपभृतीनां क्रमेण सोमो रुद्रः अदितिः बृहस्पतिः सर्पः पितृ भगः अर्यमा सविता त्वष्टा वायुः इन्द्राग्निः मित्रः इन्द्रः निर्ऋतिः अम्भः विश्व: ब्रह्मा विष्णुः वसुः वरुणः अजः विवर्द्धिः अस्य स्थानेऽन्यत्र अहिर्बुध्नः पठ्यते पूषा अश्व: यमश्चैवेति, से तं देवतानामे'। __'से कि तं कुलनामे' इत्यादि, यो यस्मिनुग्रादिकुले जातस्तस्य तदेवोग्रादि कुलनाम स्थाप्यमानं कुलस्थापनानामोच्यत इति भावार्थः । 'से किं तं पासंडनामे' इत्यादि, इह येन यत्पाषण्डमाश्रितं तस्य तन्नाम स्थाप्यमानं पाषण्डस्थापनानामाभिधीयते, तत्र 'निग्गंथसक्कतावसगेरुयआजीव पंचहा समणा' इति वचनान्निर्ग्रन्थादिपञ्चपाषण्डान्याश्रित्य श्रमण उच्यते, एवं नैयायिकादिपाषण्डमाश्रिताः पाण्डुराङ्गादयो भावनीया: नवरं भिक्षुर्बुद्धदर्शनाश्रितः । 'से किं तं गणनामे' इत्यादि, इह मल्लादयो गणाः, तत्र यो यस्मिन् गणे वर्तते तस्य तन्नाम गणस्थापनांनामोच्यते इति, मल्ले मल्लदिण्णे इत्यादि । ‘से किं तं जीवियांहेउ' मित्यादि, इह यस्या जातमात्रमपत्यं म्रियते सा लोकस्थितिवैचित्र्याञ्जात्तमात्रमपि किञ्चिदपत्यंजीवननिमित्तवकारदिष्वस्यति, तस्य चावकरक: उत्कुरुटक इत्यादि यत्राम क्रियते तञ्जीविकाहेतोः स्थापनानामाख्यायते, 'सुप्पए'त्ति यः सूर्णे कृत्वा त्यज्यते तस्य सूर्पक एव नाम स्थाप्यते, शेष प्रतीतम् ! से कि तं आभिप्पाइयनामे' इत्यादि, इह यत् वृक्षादिषु प्रसिद्ध अम्बको निम्बक इत्यादि नाम देशरूढ्य स्वाभिप्रायानुरोधतो गुणनिरपेक्षं पुरुषेषु व्यवस्थाप्यते तदाभिप्रायिक स्थापनानामेति भावार्थः। तदेतत् स्थापनाप्रमाणनिष्पन्नं सप्तविधं नामेति। मू.( २४७ वर्तते) से किंतं दव्यप्पमाणे?, २ छविहे पत्रते, तंजहा-धम्मत्थिकाए जाव अद्धासमए, से तं दव्यप्पमाणे। वृ.अयमत्र भावार्थ:-धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षड्द्रव्यविषयाणि नामानि द्रव्यमेव प्रमाणं तेन निष्पन्नानि द्रव्यप्रमाणनामानि, धर्मास्तिकायादिद्रव्यं विहाय न कदाच्चिदन्यत्र वर्तन्त इति तद्धेतुकान्युच्यन्त इति तात्पर्यम्। अनादिसिद्धान्तनामत्वेनैवैतानि प्रागुक्तानीति चेद्, उच्यतां, को दोष: ?, अनन्तधर्मात्मके वस्तुनि तत्तद्धर्मापेक्षयाऽनेकव्य पदेशताया अदुष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्यमिति। मू. ( २४७ वर्तते) से किं भावप्पमाणे?, २ चउबिहे पन्नते, तंजहा-सामासिए तद्धिए धाउए निरुत्तिए। से किं तं सामासिए?, २ सत्त समासा भवंति, तंजहा वृ. भावो-युक्तार्थत्वादिको गुणः, स एव तद्द्वारेण वस्तुनः परिच्छिद्यमानत्वात् प्रमाणं तेन निष्पन्न -तदाश्रयेण निर्वृत्तं नाम सामासिकादि चतुर्विधं भवतीत्यत्र परमार्थः । तत्र 'से कि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003383
Book TitleAgam Sutra Satik 45 Anuyogdwar ChulikaSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages257
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 45, & agam_anuyogdwar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy