________________
३५५
मूलं-१६३ पारिणामिए जीवे, एस नं से नामे उवसमिएखइएखओवसमिएपारिणामिअनिप्फने ५/
वृ. भङ्गकरचना अकृच्छावसेयैव । इदानीं तानेव पञ्च भङ्गान् व्याचिख्यासुराह-'कयरे से नामे उदइए' इत्यादि, भावना पूर्वाभिहितानुगुण्येन कर्तव्या, नवरमत्रौदयिकोपमिकक्षायोपशमिकपारिणामिकभावनिष्पत्रस्तृतीयभङ्गो गतिचतुष्टयेऽपि संभवति, तथाहि-औदयिकी अन्यतरा गति: नारकतिर्यग्देवगतिषु प्रथमसम्यक्त्वलाभकाले एव उपशमभावो भवति मनुष्यगतौ तु तत्रोपशमश्रेण्या चौपशमिकं सम्यक्त्वं क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येवभयं भङ्गकः सर्वासु गतिषु लभ्यते, यत्त्विह सूत्रे प्रोक्तम्-'उदइएत्ति मनुस्से उवसंता कसाय'त्ति, तत्तु मनुष्यगत्यपेक्षयैव द्रष्टव्यं, मनुष्यत्वोदयस्योपशमश्रेण्यां कषायोपशमस्य च तस्यामेव भावाद्, अस्य चोपलक्षणमात्रत्वादिति, एवमौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावनिष्पन्नाश्चतुर्थभङ्गोऽपि चतुसृष्वपि गतिषु संभवति, भावना त्वनन्तरोक्ततृतीयभङ्गकवदेव कर्तव्या, नवरमोपशमिकसम्यक्त्वस्थाने क्षायिकसम्यक्त्वं वाच्यम्, अस्ति च क्षायिकसम्यक्त्वं सर्वास्वपिगतिषु, नारकतिर्यग्देवगतिषु पूर्वप्रतिपन्नस्यैव, मनुष्यगतौ तु पूर्वप्रतिपन्नस्य प्रतिपद्यमानकस्य च तस्यान्यत्र प्रतिपादितत्वादिति, तस्मादत्राप्येतौ द्वौ भङ्गको सम्भविनौ, शेषास्तु त्रयः संवृत्तिमात्र, तद्रूपेण वस्तुन्यसम्भवादिति ।
साम्प्रतं पञ्चकसंयोगमेकं प्ररूपयन्नाह
मू.(१६३ वर्तते तत्थ णंजे से एक्के पंचगसंजोए से णं इमे-अस्थि नामे उदइएउवसमिएखओवसमिएखइएपारिणामिअनिष्फो १, कयरे से नामे उदउएउवसमिएखइएखओवसमिएपारिणामिअनिप्फन्ने ?, उदइएत्ति मनुस्से उवसंता कसाया खइअंसम्मत्तं खओवसमिआई इंदिआइं पारिणामिए जीवे, एस नं से नामे जाव पारिणामिअनिष्फत्रे, से तं सन्निवाइए, से तं छन्नामे।
वृ.अयं च सविवरण: सुगम एव, केवलं क्षायिकः सम्यग्दृष्टिः सन् यः उपशमश्रेणी प्रतिपद्यते तस्यायं भङ्गक: संभवति, नान्यस्य, समुदितभावपञ्चकस्यास्य तत्रैव भावादिति परमार्थः, तदेवमेको द्विकसंयोगभङ्गको द्वौ द्वौ त्रिकयोगचतुष्कयोगभङ्गकावेकस्त्वयं पञ्चकयोग इत्येते षड् भङ्गका अत्र सम्भविनः, प्रतिपादिताः, शेषास्तु विंशतिः संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितम्, एतेषु च षट्सु भङ्गकेषु मध्ये एकस्त्रिकसंयोगो द्वौ चतुष्कसंयोगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतम्, अथो गतिचतुष्टयभेदात् ते किल द्वादश(वि)वक्ष्यन्ते, ये तु शेषा द्विकयोगत्रिकयोगपञ्चकयोगलक्षणास्त्रयो भङ्गाः सिद्धकेवल्युपशान्तमोहानां यथाक्रमं निर्णीता: ते यथोक्तैकैकस्थानसम्भवित्वात् त्रय् एवेत्यनया विवक्षयाऽयं सान्निपातिको भाव: स्थानान्तरे पञ्चदशविध उक्तो दृष्टव्यो, यदाह-'अविरुद्धसनिवाइयभेया एभेव पनरस'त्ति, 'से तं सनिवाइए'त्ति निगमनम्।
उक्तः सान्निपातिको भावः, तद्भणने चोक्ताः षडपि भावाः, ते च तद्वा चकैर्नामभिर्विना प्ररूपयितुं न शक्यन्त इति तद्वाचकान्यौदयिकादीनि नामान्यप्यक्तानि, एतैश्च षड्भिरपि धर्मास्तिकायादेः समस्तयापि वस्तुनः संग्रहात् षट्प्रकारंसत् सर्वस्यापि वस्तुनो नाम षड्नामेत्यनया • दिशा सर्वमिदं भावनीयं, से तं छन्नामे'त्ति निगमनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org