________________
मूलं-१६१
गोत्रं द्विधा-उच्चैर्गोत्रं नीचैर्गोत्रं च, ततस्तत्क्षयसम्भवीनि क्षीणगोत्रादिनामान्युक्तानुसारतः सुखावसेयान्येव। ___ दानान्तरायादिभेदादन्तरायं पञ्चधा, तत्क्षयनिष्पन्नानि च क्षीणादानान्तरायादिनामान्यविषमाण्येव, तदेवमेकैकप्रकृतिक्षयनिष्पन्ननामानि प्रत्येकं निर्दिश्य साम्प्रतं पुनः समुदितप्रकृत्यष्टकक्षयनिष्पन्नानि सामान्यतो यानि नामानि भवन्ति तान्याह- सिद्धे'इत्यादि, सिद्धसमस्तप्रयोजनत्वात् सिद्धः, बोधात्मकत्वादेव बुद्धः, बाह्याभ्यन्तरग्रन्थबन्धनमुक्तत्वात् मुक्तः, परिः-समन्तात् सर्वप्रकारेः निर्वृत्तः-सकलसमीहितार्थलाभप्रकर्षप्राप्तत्वात् शीतीभूतः परिनिर्वृतः, समस्तसंसारान्तकृत्त्वादन्तकृदिति, एकान्तेनैव शरीरमानसदुःखप्रहणात् सर्वदुःखप्रहीण इति । ‘से त'मित्यादि निगमनद्वयम्। उक्तो द्विविधोऽपि क्षायिकः, अथ क्षायोपशमिकवाह
मू.(१६१ वर्तते )से किं तं खओवसमिए?, २ दुविहे पन्नत्ते, तंजहा-खओवसमिए य खओवसमनिप्फने यासे किंत खओवसमे?, २ चउण्हं घाइकम्माणं खओवसमेणं. तंजहानानावरणिज्जस्स दंसणावरणिज्जस्स मोहणिज्जस्स अंतरायस्सखओवसमेणं, सेतं खओवसमे।
से किं तं खओवसमनिप्फो?, २ अनेगविहे पत्रत्ते, तंजहा-खओवसमिआ आभिनिबोहिअनाणलद्धी जाव खओवसमिया मनपज्जवनाणलद्धी खओवसामिआ मइअन्नालद्धी खओवसमिया सुअअत्राणलद्धी खओवसमिआविभंगनाणलद्धी खओवसमिआ चक्खुदंसणलद्धी अचक्खुदंसणलद्धी ओहिदसणलद्धी एवं सम्मदंसणलंधी मिच्छादसणलद्धी सम्ममिच्छादसणलद्धी
खओवसमिआ सामाइअचरित्तलद्धी एवं छेदोवट्ठावणलद्धी परिहारविसुद्धिअलद्धी सुहमसंपरायचरित्तलद्धी एवं चरित्ताचरित्तलद्धी खओवसमिआ दानलद्धी एवं लाभ० भोग० उवभोगलद्धी खओवसमिआ वीरिअलद्धी एवं पंडिअवीरिअलद्धी बावलवीरिअलद्धी बालपंडिअवीरिअलद्धी खओवसमिआ सोइंदिअलद्धी जाव खओवसमिआ फासिदिअलद्धी।
खओवसमिए आयारंगधरे एवं सुअगडंगधारे ठाणंगधरे समवायंधरे विवाहपन्नत्तिधरे नायाधम्म्कहा. उवासगदसा० अंतगडदसा० अनुत्तरोववाइअदसा० पण्हावागारणधरे विवागसुअधरेखओवसमिएअदिट्ठियावधरे अखोवसमिए नवपुची खओवसमिए जाव चउद्दसपुब्बी खओवसमिए गणी खओवसमिए वायए, से तं खओवसमनिष्फन्ने, से तं खओवसमिए।
वृ.असावपि द्विरूप:-क्षयोपशमस्तन्निष्पनश्च, तत्र विवक्षितज्ञानादिगुणविधातकस्य कर्मण उदयप्राप्तस्य क्षयः-सर्वथाऽपगमः अनुदीर्णस्य तु तस्यैवोपशमे-विपाकत उदयाभाव इत्यर्थः, ततश्च क्षयोपलक्षित उपशमः क्षयोपशमः, ननु चौपशमिकेऽपि यदुदयप्राप्तं तत्सर्वथा क्षीणं शेषं तु न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम उच्यत इत्यनयोः कः प्रतिविशेषः ?, उच्यते, क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति, प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तु प्रदेशतोऽपि नास्त्युदय इत्येतावता विशेषः । तत्र चतुर्णा घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां यः क्षयोपशम:-क्षयोपशमरूपः स क्षयोपशमिको भावः, नमिति पूर्ववत्, तद्यथेत्यादिना स्वत एव घातिकर्माणि विवृणोति, शेषकर्मणां तं क्षयोपशमो नास्त्येव, निषिद्धत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org