________________
अनुयोगद्वार - चूलिकासूत्रं अपरंच-अनावरणादिशब्दाः पूर्वं ज्ञानावरणाभावापेक्षाः प्रवृत्ता अत्र तु दर्शनावरणाभावापेक्षा इति विशेषः, वेदनीयं द्विधा प्रीत्युत्पादकं सातमप्रीत्युत्पादकं त्वसातं, तत्क्षयापेक्षास्तु क्षीणसातावेदनीयादयः शब्दाः सुखोन्नेयाः, नवरमवेदनो- वेदनारहितः, स च व्यवहारतोऽल्पवेदनोऽप्युच्यते ततः प्राह-निर्वेदन:- अपगतसर्जवेदन:, स च पुनः कालान्तरभाविवेदनोऽपि स्यादित्याह- क्षीणवेदन:- अपुनर्भाविवेदन:, निगमयन्नाह 'सुभासुभवे अणिञ्जकम्मविप्पमुक्के 'त्ति। मोहनीयं द्विधा- दर्शनमोहनीयं चारित्रमोहनीयं च तत्र दर्शमोहनीयं त्रिधा सम्यकत्वमि श्रमिथ्यात्व भेदात्, चारित्रमोहनीयं च द्विश्रा - क्रोधादिकषायहास्यादिनोकषायभेदात्, तत्र एतत्क्षयसम्भवीनि सूत्रलिखितानि क्षीणक्रोधादीनि नामानि सुबोधान्येव, नवरं मायालो भौ प्रेम, क्रोधमानौ तु द्वेषः, तथा अमोहः- अपगतमोहनीयकर्मा, स च व्यवहारिकैरल्पमोहोदयोऽपि निर्दिश्यते अत आह-निर्गतो मोहान्निर्मोहः, स च पुनः कालान्तरभाविमोहोदयोऽपि स्यादुपशान्तमोहवत् तद्व्यवच्छेदार्थमाह- क्षीणमोहः अपुनर्भाविमोहोदय इत्यर्थः, निगमयतिमोहनीय कर्मविप्रमुक्त इति ।
-
३४८
-
Jain Education International
.
नारकाद्यायुष्कभेदेनायुश्चतुद्धी, तत्क्षयसमुद्भवानि च नामानि सुगमानि, नवरमविद्यमानायुष्कोऽनायुष्कस्तद्भविकायुः क्षयमात्रेऽपि स स्यादत उक्तं निरायुष्कः, स च शैलेश गतः किञ्चिदवतिष्ठमानायुः शेषोऽप्युपचारतः स्यादत उक्तं क्षीणायुरिति, आयुः कर्मविप्रमुक्त इति निगमनं ।
नामकर्म सामान्येन शुभाशुभभेदतो द्विविधं विशेषस्तु गतिजातिशरीराङ्गोपाङ्गादिभेदाद् द्विचत्वारिंशादिभेदं स्थानान्तरदवसेयं, तत्रेह तत्क्षयभावीनि कियन्ति तन्नामानि अभिधत्ते'गइजाइसरीरे' त्यादि, इह प्रक्रमानामशब्दो यथासम्भवं दृष्टव्यः, ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम, एकेन्द्रियादिजातिपञ्चककारणं जातिनाम, औदारिकादिशरीरपञ्चकनिबन्धनं शरीरनाम, औदारिकवैक्रियाहारकशरीरत्रयाङ्गोपाङ्गनिवृत्तिकारणमङ्गोपाङ्गनाम, काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपञ्चकपुद्गलानां परस्परं बन्धहेतुर्वन्धननाम, तेषामेव पुद्गलानां परस्परं बन्धनार्थमन्योऽन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत् तथाविधकर्मकर इव सङ्घातनम, कपाटादीना लोहपट्टादिरिवौदारिकशरीरस्थ्नां परस्परबन्धविशेषनिबन्धनं संहनननाम, एतच्च बन्धनादिपदत्रयं क्वचिद्वाचनान्तरे न दृश्यत इति, बोन्दिस्तनुः शरीरमिति पर्यायाः, अनेकाश्च ता नानाभावेषु बह्वीनां तासां भावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यौदारिकतेज-सकार्मणलक्षणानां तिसृणां भावाद् बोन्द्यश्चानेकवोन्द्यस्तासां वृन्दं पटलं तदेव पुद्गलसङ्घातरूपत्वात् सङ्घातोऽनेकबोन्दिवृन्दसङ्घातः, गत्यादीनां च द्वन्द्वे गतिजातिशरीराङ्गोपाङ्गबन्धनसंघातसंहननसंस्थानानेकबोन्दिवृन्दसङ्घातास्तैर्विप्रमुक्तो यः स तथा, प्राक्तनेन शरीरशब्देन शरीराणां निबन्धनं नामकर्म गृहीतं, बोन्दिवृन्दग्रहणेन तु तत्कार्य भूतशरीराणामेव ग्रहणमिति विशेष:, क्षीणम्- अपगतं तीर्थकरशुभसुभगसुस्वरादेययशः कीर्त्यादिक शुभं नाम यस्य स तथा, क्षीणम् - अपगतं नरकगत्यशुभदुर्भगदुः स्वरानादेयायशः कीर्त्यादिकमशुभं नाम यस्य स तथा अनामनिर्नामक्षीणनामादिशब्दास्तु पूर्वोक्तानुसारेण भावनीयाः, शुभाशुभनामविप्रमुक्त इति निगमनम् ।
For Private & Personal Use Only
www.jainelibrary.org