________________
३४६
-
अनुयोगद्वार-चूलिकासूत्रं __ अथाजीवोदयनिष्पन्नं निरूपयितुमाह-'से कि त'मित्यादि, 'ओरालियं वा सरीरं'ति विशिष्टाकारपरिणतं तिर्यङ्मनुष्यदेहरूपमौदारिकं शरीरं, 'उरालिअसरीरप्पओगे' इत्यादि,
औदारिकशरीरप्रयोगपरिणामितं द्रव्यम् औदारिकशरीरस्य प्रयोगो-व्यापारस्तेन परिणामितं स्वप्रयोगित्वात् गृहीतं तत्तथा, तच्च वर्णगन्धरसस्पर्शानापानादिरूपं स्वत एवोपरिष्टाद् दर्शयिप्यति, वाशब्दौ परस्परसमुच्चये, एतद्वितमप्यजीवे-पुद्गलद्रव्यलक्षणे औदारिकशरीरनामकर्मोदयने निष्पन्नत्वादजीवोदयनिष्पन्न औदयिको भाव उच्यते, एवं वैक्रियशरीरादिष्वपि भावना कार्या, नवरं वैक्रियशरीरनामकर्माद्युदयजन्वत्वं यथास्वं वाच्यमिति । औदारिकादिशरीरप्रयोगेण यत् परिणम्यते द्रव्यं तत् स्वत एव दर्शयितुमाह-'पओगपरिणामिए वण्णे' इत्यादि, पञ्चानामपि शरीराणां प्रयोगेण-व्यापारेण परिणामितं-गृहीतं वर्णादिकं शरीरवर्णादिसम्पादकं द्रव्यमिदं द्रष्टव्यम्, उपलक्षणत्वाच्च वर्णादीनामपरमपि यच्छरीरे संभवत्यानापानादि तत् स्वत एव दृश्यमिति । अत्राह-ननु यथा नारकत्वादयः पर्याया जोवे भवन्तीति जीवोदयनिष्पन्ने
औदयिके पठ्यन्ते, एवं शरीराण्यपि जीव एव भवन्ति अतस्तान्यपि तत्रैव पठनीयानि स्युः, किमित्यजीवोदयनिष्पन्नोऽधीयन्ते ?, अस्त्येतत्, किंत्वौदारिकादिशरीरनामकर्मोदयस्य मुख्यतया शरीरपुद्गलेष्वेव विपाकदर्शनात् तन्निष्पन्न औदयिको भावः शरीरलक्षणेऽजीव एव प्राधान्याद् दर्शित इत्यदोषः। 'से त'मित्यादि निगमनत्रयम् ।
उक्तो द्विविधोऽप्योदयिकः, अथोपशमिकं निर्दिदिक्षुराह
मू.(१६१ वर्तते) से किंतंउवसमिए?, २ दुविहे पन्नत्ते, तंजहा-उवसमे अउवसमनिष्फने अ। से किं तं उवसमे ?, २ मोहनिज्जस्स कम्मस्स उवसमेणं, से तं उवसमे । से किं तं उवसमनिप्फन्ने ?, २ अनेगविहे पन्नत्ते, तंजहा-उवसंतकोहे जाव उवसंतलोभे उवसंतपेज्जे उवसंतदोसे उवसंतदंसनमोहनिज्जे उवसंतमोहनिज्जे उवसमिआ सम्मत्तलद्धी उवसमिआ चरित्तलद्धी उवसंतकसायछउमत्थवीयरागे, से तं उवसमनिष्फन्ने। से तं उवसमिए।
वृ. अयमपि द्विविधः-उपशमस्तनिष्पन्नश्च, तत्र 'उवसमे नं'ति नमिति वाक्यालङ्कारे, उपशम: पूर्वोक्तस्वरूपो मोहनीयस्यैव कर्मणोऽष्टाविंशतिभेदभिन्नस्योपशमश्रेण्यां दृष्टव्यो न शेषकर्मणां, 'मोहस्सेवोवसमो' इति वचनात्, उपशम एवौपशमिकः । उपशमनिष्पन्ने तु 'उवसंतकोहे इत्यादि, इहोपशान्तक्रोधादयो व्यपदेशाः कापि वाचनाविशेषाः (पे) कियन्तोऽपि दृश्यन्ते, तत्र मोहनीयस्योपशमेन दर्शनमोहनीयं चारित्रमोहनीयं चोपशान्तं भवति, तदुपशान्ततायां च ये व्यपदेशाः संभवन्ति ते सर्वेऽप्यत्रादुष्टा न शेषा इति भावनीयम्। सेत'मित्यादि निगमनद्वयम् । निर्दिष्टो द्विविधोऽप्यौशमिकः, अथ क्षायिकमाह
मू.(१६१ वर्तते) से किंतं खइए?, २ दुविहे पन्नत्ते, तंजहा-खइए अखयनिप्फने असे किं तं खइए?, २ अटुण्हं कम्मपयडीणं खए नं से तं खइए । से किं तं खयनिष्फन्ने ?, २ अनेगविहे पत्रत्ते, तंजहा
उप्पन्ननाणदसणधरे अरहा जिने केवली खीणआभिनिबोहिअनाणावरणे खीणसुअनाणावरणे खीणओहिनाणावरणे खीणमनपज्जनाणावरणे खीणकेवलनाणावरणे अनावरणे निरावरणे खीणावरणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org