________________
मूलं-१६१
वृ.अत्रौदयिकादयः षड्भावाः प्ररूप्यन्ते, तथा च सूत्रम्-'उदइए' इत्यादि, अत्राह-ननु नाम्नि प्रक्रान्ते तदभिधेयाना मर्थानां भावलक्षणानां प्ररूपणमयक्तमिति, नैतदेवं, नामनामवतोरभेदोपचारात् तत्प्ररूपणस्याप्यदुष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्यं, तत्र ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्वरूपेण विपाकतोऽनुभवनमुदयः स एवोदयिकः, अथवा यथोक्तन वोदयेन निष्पना औदयिको भाव इति सामर्थ्याद् गम्यते, उपशमनमुपशमः-कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छन्नाग्निवत् स एव औपशमिकः, तेन वा निवृत्त औपशमिकः, क्षयः कर्मणोऽपगमः स एव तेनवा निर्वत्तः क्षायिकः कर्मणो यथोक्तो क्षयोपश-- मावेव ताभ्यां वा निर्वृत्तः क्षायोपशमिक: दरविध्य्तभस्मच्छन्नावह्निवत्, परिणमनं-तेन तेन रूपेण वस्तूनां भवनं परिणामः स एव तेन वा निवृत्त: पारिणामिक अनन्तरोक्तानांद्वयादिभावानां मेलक: सन्निपातः स एव तेन वा निर्वृत्तः सानिपातिकः।
तत्रामीषां प्रत्येकं स्वरूपनिरूपणार्थमर्थमाह
मू.(१६१ वर्तते) से किंतं उदइए?. २ दुविहे पन्नते, तंजहा-उदइए अउदयनिप्फने । से किं तं उदइए?, २ अट्ठण्हं कम्मपयडीणं उदएणं, से तं उदइए। से किं तं उदयनिष्फो ?. २ दुविहे पत्रतं, तंजहा-जीवोदयनिष्फने अ अजीवोदयनिष्फो ।
से किं तं जीवोदयनिप्फन्ने?, २ अनेगवीहे पन्नत्ते तंजहा- नेरइए तिरिक्खजोणिए मनुस्से देवे पुढविकाइए जाव तसकाइए कोहकसाई जाव लोहकसाई इत्थीवेदए पुरिसवेयए नपुंसगवेदए कण्हलेसे जाव सुक्कलेसे मिच्छादिट्ठी ३ अविरए असण्णी अन्नाणी आराहरए छउमत्थे सजोगी संसारत्थे असिद्धे, से तं जीवोदयनिष्फने? से किं तं अजीवोदयनिष्फने?, २ अनेगवीहे पन्नत्ते तंजहा-उरालि वा सरीरं उरालिअसरीरपओगपरिणामिअंवा दव्वं, वेउविवासरीर वेउब्वियसरीरपओगपरिणामिअंवा दध्वं, एवं आहारगं, सरीरं तेअगसरीरं कम्मगसरीरं च भाणिअव्वं, पओगपरिणामिए वन्ने गंधे रसे फासे से तं अजीवोदयनिप्फन्ने । से तं उदयनिप्फन्ने, से तं उदइए।
वृ. औदयिको भावो द्विविधः-अष्टानां कर्मप्रकृतीनामुदयस्तनिष्पन्नाच, अयं चार्थ: प्रकारद्वयेन व्युत्पत्तिकरणादादावेव दर्शितः, उदयनिष्पन्नः, पुनरपि द्विविधो-जीवे उदयनिष्पन्नो जीवोदयनिष्पन्नः अजीवे उदयनिष्पन्नोऽजीवोदयनिष्पन्नो, जीवोदयनिष्पन्नस्योदाहरणानि'नेरइए' इत्यादिः, इदमुक्तं भवति-कर्मणामुदयेनैव सर्वेऽप्येते पर्याया जीवे निष्पन्नाः, तद्यथानारकस्तिय॑मनुष्य इत्यादि, अत्राह-ननु यद्येवमपरेऽपि निद्रापञ्चकवेदनीयहास्यादयो बहवः कर्मोदयजन्या जीवे पर्यायाः सन्ति, किमिति नारकत्वादय: कियन्तोऽप्युपन्यस्ता:?, सत्यम्, उपलक्षणत्वादमीषामन्येऽपि सम्भविनो दृष्टव्याः, अपरस्त्वाह-ननु कर्मोदयजनितानां नारकात्वादीनां भवत्विहोपन्यासो लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्ध तत्किमितिह तदुपन्यासः?, सत्यं, किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव, ततो लेश्यानामपि तदुभयजन्यत्वं न विहन्यते, अन्ये तुमन्यन्ते-कर्माष्टकोदयात् संसारस्थत्वासिद्धत्ववल्लेश्यावत्त्वमपि भावनीयमित्यलं विस्तरेण, तार्थना तु गन्धहस्तिवृत्तिरनुसतव्येति, 'से तं जीवोदयनिप्फनो'त्ति निगमनम्।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org